________________
अधिकार २ / लोक ५०-५१ / फलपूजायां फलसारकथा ६
1
श्रुतशीलतपोयुक्ता, गुरवस्तु सुसाधवः । तथा सुश्रावका नैव, हिंसन्ति स्थूलदेहिनः ॥ १८१।। स्थूलालीकं न जल्पन्ति, स्थूलादत्तं न गृह्णते । परदारान्न गच्छन्ति, परिगृह्णन्ति नामितम् ॥ १८२ ॥ कुर्वन्ति दिक्षु सर्वासु, प्रमाणं गमनाश्रितम् । कुर्वन्ति शक्तितो मान-मपि भोगोपभोगयो ॥ १८३॥ त्यजन्त्यनर्थदण्डं च, मनोवाक्कायजं सदा । समस्तव्रतसङ्क्षेपं कुर्वन्ति प्रतिवासरम् ॥ १८४|| सावद्येतरयोगाना, त्यागसेवनरूपकम् । सामायिकव्रतं चैवं यथाशक्त्या प्रकुर्वते ॥ १८५ ॥ आहारदेहसत्कारा- ऽब्रह्मव्यापारवर्जनात् । कुर्वन्ति पौषधं चैव, विशुद्धं धर्मपोषकम् ॥ १८६॥ वराहारादिदानं च, निजन्यायार्जितं तथा । यच्छन्ति साधुलोकाय, कर्मक्षयार्थमञ्जसा ॥ १८७॥ जैने गृहे च बिम्बे च, सिद्धान्ते सङघ एव च । व्ययन्ति च यथाशक्त्या, न्यायोपात्तं निजं धनम् ॥ १८८॥ तथा साधर्मिलोकानां, वात्सल्यं भक्तियोगतः । प्रकुर्वन्ति यथायोगं, यथाकालं यथाबलम् ॥ १८९॥ क्रियते च सदा श्राद्धै- स्त्रिसन्ध्यं जिनपूजनम् । सदा सद्गुरुसेवा च, भक्त्या जैनवच: श्रुतिः ॥ १९०॥ दानं दीनादिलोकेभ्यो, विधिवद्गुरुपूजनम् । लोकागमविरुद्धानां दूरतः परिवर्जनम् ॥१९१॥ अशिष्टसङ्गतित्यागः, शिष्टैश्च सह सङ्गति: । - मोक्षसौख्याभिलाषश्च, संसारभयभीरुता ॥ १९२॥ इन्द्रियाणां जय: शक्त्या, कषायाणां च निग्रहः । सत्यं शीलं च शौचं च, दाक्षिण्यं च दयालुता ॥ १९३॥ तथेङ्गालवनादीनां, बहुसावद्यकर्मणाम् । बहुलोकब्रिरुद्धानां शक्तितः परिवर्जनम् ॥१९४॥ परपीडापरित्यागः, परावर्णाप्रभाषणम् । परोपकारकारित्वं, परद्रव्येष्वलोभता ।।१९५ ।। मैत्री सर्वेषु सत्त्वेषु, माध्यस्थ्यं निर्गुणे जने । कृपा सङ्क्लिश्यमानेषु तुष्टिः सद्गुणधारिषु ॥ १९६॥ माननं मान्यलोकस्य, पूज्यलोकस्य पूजनम् । सर्वशिष्टजनानिन्द्य-व्यवहारेषु वर्तनम् ॥१९७॥ इत्यनेकगुणग्रामः, सुश्रावकजनोचितः । नाख्यातुं शक्यते सर्वो, भो श्रेष्ठिन् मादृशैर्जनैः ॥ १९८॥ लेशतश्च मयाख्यातो, यथामति तवाग्रतः । विस्तरेण समाख्यान्ति, साधवो हि बहुश्रुताः ॥ १९९॥ तदेष श्रावको धर्मः, सर्वः सर्वज्ञभाषितः । शुद्धसम्यक्त्वसंयुक्तः, पञ्चाणुव्रतसंयुतः ॥ २००॥ सप्तशिक्षापदोपेतो, नानाभिग्रहशोभितः । सद्गतिपूरसन्मार्गो, दुर्गतिद्वाररोधकः ॥ २०१ || पारम्पर्येण जीवानां, मोक्षस्यापि हि साधकः । मयापि श्राद्धधर्मोऽयं, सर्वकल्याणकारकः ॥ २०२॥ सद्भावतो विधानेन, गृहीतो गुरुसन्निधौ । अथानन्दितचित्तेन, फलदेवेन जल्पितम् ॥२०३॥ सुन्दरः सुन्दरो धर्मः, साधु साधूदितं त्वया । ममापि त्वं ह्यमुं धर्मं, देहित्वमेव मे गुरुः ॥२०४॥ आख्याय देवतत्त्वादि, तेनापि च तथा कृतम् । ततश्च फलदेवस्य धर्मप्राप्तिवशादलम् ॥२०५॥ सञ्जातः परमानन्द-स्ततश्चिन्तितवानिदम् । धन्योऽहं कृतपुण्योऽहं दृष्टोऽहं त्रिजगच्छ्रिया ॥ २०६॥ यतोऽयं सुन्दरो धर्मो, लब्धो लब्धिमता मया । स एव शुभचन्द्रो मे, सद्बन्धुर्बन्धुरो गुरुः || २०७|| यत्सङ्गेनाद्य जातोऽहं, सर्वकल्याणभाजनम् । अथोक्तं शुभचन्द्रेण, फलदेवाधुना भवान् ॥ २०८ ॥ आचष्टां निजवृत्तान्तं, येन मे जायते धृतिः । मूलादेव समाख्यात - स्तस्मै तेनापि सोऽखिलः ॥ २०९ ॥
Jain Education International
For Private & Personal Use Only
"
१०९
www.jainelibrary.org