________________
१०८
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
उच्छलित: क्षणादेव, लब्धं फलकखण्डकम् । लग्नस्तत्र जले भ्राम्यन्, दैवयोगादिहागत: ॥१६॥
अत्रत्याम्बुफलाहार-दोषाद्रोगैरभिद्रुतः ।
नाम्नाच शुभचन्द्रोऽहं, जिनचन्द्रश्च मत्पिता॥ सुश्रावकसमाचार-कारको धर्मकारकः । तदहो यत्त्वया पृष्टं, तदादिष्टं मयाखिलम् ॥१६३।। अथोक्तं फलदेवेन, भो! शुभचन्द्र कीदृश ?: । सुश्रावकसमाचार:, सङ्केपान्मम कथ्यताम् ॥१६४॥ स प्राह श्रूयतां श्रेष्ठिन्, कर्णं दत्त्वा क्षणान्तरम्। श्रावको नात्ति मांसानि, न मद्यानि पिबत्यसौ॥१६५।। न च भुङ्क्ते रजन्यां तु, नानाति मधुम्रक्षणे । एषां हि भक्षणे दोषा, भूयांस: कथिता जिनैः॥१६६॥ धिग्मांसं यत्परप्राण-प्रणाशेन प्रजायते । को भक्षयेदिदं प्राज्ञो, यद्भुक्तं पातयेदधः ॥१६७।। अहिंसा धर्मसर्वस्वं, कुत: सा मांसभक्षणे ? । अत: श्रावकलोकेन, मांसमाजन्मवर्जितम् ।।१६८।। मद्यं सर्वप्रमादानां, प्रमाद: प्रथमो मतः । प्रथमत्वे च को हेतु: ? ज्येष्ठं यत्पापकारणम् ॥१६९॥ किञ्च-वैरूप्यं व्याधिपिण्ड: स्वजनपरिभव: कार्यकालातिपातो,
विद्वेषो ज्ञाननाश: स्मृतिमतिहरणं विप्रयोगश्च सद्भिः । पारुष्यं नीचसेवा कुलबलतुलना धर्मकामार्थहानि:
कष्टं वो षोडशैते निरुपचयकरा मद्यपानस्य दोषा: ॥१७०।। मूलं सर्वविकाराणां, कारणं पापकर्मणाम् । हेतुर्वैरानुबन्धस्य, निवासो निखिलापदाम् ॥१७१।। रागद्वेषादिदोषाणां, पोषणं गुणमोषणम् । शिष्टैनिन्द्यं कथं नाम, मद्यं सुश्रावक: पिबेत् ॥१७२॥ आयुर्वर्षशतं लोके, तदर्थं स उपोषित: । करोति विरतिं धन्यो, य: सदा निशि भोजने ॥१७३।। यत:- मालिंति महियलं जामिणीए रयणीयरा सयं तेणं ।
ते विटालंति फुडं रयणीए भुंजमाणे उ ॥१७॥ मेहं पिपीलियाओ हणंति वमणं च मच्छिया कुणइ । जूया जलोयरत्तं, कोलिओ उ कोढरोगं च ॥१७॥ वालो सरस्स भंगं कंटो लग्गइ गलंमि दारुं च । तालुमि विधइ अली, वंजणमझमि भुंजंतो ॥१७६॥ जीवाणं कुंथुमाईण घायणं भाणधोयणाईसु।
एमाइ रयणिभोयण-दोसा को साहिउं तरइ ॥१७७॥ तद्वर्णास्तद्रसा जीवा, सम्भवन्ति यत: किल । सर्वज्ञशासने तेन, दूषिते मधुम्रक्षणे ॥१७८।। यत उक्तमागमे- मज्जे महंमि मंसे य, नवणीयम्मि चउत्थए ।
उपजंति असंखा तन्वन्ना तत्थ जंतुणो ॥१७९॥ तथा श्रावकलोकस्य; देव: सर्वज्ञ एव हि। धर्मस्तु तत्प्रणीतो य:, स त्वहिंसादिलक्षण: ॥१८०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org