________________
अधिकार २ / श्लोक ५०-५९ / फलपूजायां फलसारकथा ६
सिंहविक्रमभूपस्य, दुहिता रत्नसुन्दरी ।
दृष्टा ततश्च सर्वाङ्ग, विद्ध: कामशिलीमुखैः ॥१३३।। समाख्यातं ममागत्य, द्वावप्यावां ततो द्रुतम् । गत्वा सिंहपुरे तूर्णं, गृहीत्वा रत्नसुन्दरीम् ॥१३४।। गगनवर्त्मना याव-दागच्छावस्ततो मम । नितान्तं रत्नसुन्दर्या, सौन्दर्येण हृतं मनः ॥१३५।। उक्तो मया लघुभ्रौता, बालेयं मे भविष्यति । स प्राह न ददे तुभ्य-महमिमां विना म्रिये ॥१३६॥ तत सा लातुमारब्धा, तस्य हस्तान्मया बलात् । केशाकेशिं च कुर्वन्ता-ववतीर्णौ महीतले ॥१३७॥ मुक्त्वा वंशकुडङ्गान्त:, कन्यका रत्नसुन्दरीम् । गजाविव मदोन्मत्तौ, लग्नौ योद्धं परस्परम् ॥१३८॥ युद्ध्वा च विविधैः शस्त्रै-श्चिरमाबद्धमत्सरौ । ततो गाढप्रहारैश्च, पतितावत्र भूतले ॥१३९॥ प्राप्तौ च मरणावस्थां, त्वयोज्जीवापितौ पुनः । तस्मादत्राऽऽ:वयो: श्रीमां-स्त्वदन्यो नोपकारकः॥ त्वं पिता त्वं परं मित्रं, त्वं चात्यन्तिकबान्धवः । अस्याश्च रत्नसुन्दर्याः, कारणेनावयोरिमा॥१४१।। सञ्जाता दारुणा व्याप-दन्योन्यं मरणान्तिका । तदेष स्वीयवृत्तान्त, आवाभ्यां कथितस्तव ॥१४२।। साम्प्रतं त्वं स्वकीयं नौ, सङ्केपेण निवेदय । स प्राह वयमायाता: सोपाराभिधपत्तनात् ॥१४॥ गन्तारः सिंहलद्वीपं, वाणिज्येन धनेच्छया । तत: प्रोक्तं सुचन्द्रेण, यद्येवं गृह्यतामियम् ॥१४४।। कन्या सिंहपुरे गत्वा, जनकस्य समर्पये: । तथा गृहाण भो विद्या-मिमामाकाशगामिनीम् ॥१४५।। येन नौ जायते तुष्टि-स्तेनापि च तथा कृतम् । अथ प्रणम्य तौ भक्त्या, विद्याधरौ गतौ ततः॥१४६।। फलदेवोऽपि सानन्दो, गृहीत्वा रत्नसुन्दरीम् । आयातस्तेषु पोतेषु, प्रवृत्तो गन्तुमुच्चकैः ।।१४७॥ अथ गच्छद्भिरेकत्र, वंशाग्रे ददृशे ध्वज: । किमेतदिति पप्रच्छ, फलदेवो निजान् जनान् ॥१४८।। तैरवाचीदमत्रास्ते, भिन्नवाहनिको नरः । कश्चित्तेनेह बद्धोऽयं, वंशाग्रे दृश्यते ध्वजः ॥१४९॥ आत्मनो ज्ञापनाहेतो-रेवं सम्भावयामहे । श्रुत्वेदं प्रेषिता द्रोणी, स पुमानानीत: क्षणात् ॥१५०॥ आरोपित: स्वबोधिस्थे, दृष्टो रोगैरपि द्रुत: । तथाहि तत्तनौ दृष्टो, दाघज्वरो हि दारुणः ॥१५१।। श्वास: कासो गलत्कुष्टः, शुष्ककण्डू शिरोव्यथा। अक्षिकुक्षिव्यथातीव्रा, दन्तपीडा जलोदरम् ॥१५२॥ ततश्च फलदेवेन, परोपकृतिबन्धुना । तस्य रोगहरस्याशु, पूर्वोद्दिष्टस्य शाखिनः ॥१५३॥ पूर्वोत्तपुष्पपत्राणि, तस्मै दत्तानि सादरम् । ततोऽसौ प्रगुणो जातो, नीरोग: कनकच्छवि: ।।१५४|| पृष्टश्च फलदेवेन, कुतस्त्वं कुत्र यास्यसि । किमर्थं वा किमेकाकी, कथं वाऽजनि रोगवान् ? ॥१५५॥ किं कुलं किं च ते नाम ?, स प्राह श्रूयतामिति सिन्धुसौवीरदेशस्था-दहं वीतभयपत्तनात्। जगाम कलहद्वीपं, बोधिस्थो च धनेच्छया। राशिं महान्तमादाय, तथा स्वस्य सहायकम् ॥१५७|| कृत्वाचशुभदत्ताख्यं, वणिक्पुत्रं च दुर्जनम्। विक्रीतानिचभाण्डानि, भूरिद्रव्यमुपार्जितम्॥१५८॥ ततो भृत्वा निजं पोतं, चलिता स्वं पुरं प्रति । अर्धमार्गं समायाता:, स्तोकैरपि च वासरैः ॥१५९॥ ततोऽहं शुभदत्तेन, द्रव्यसंलुब्धचेतसा । क्षिप्तश्छलेन बोधिस्था-त्पतितोऽगाधवारिणि ॥१६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org