________________
१०६
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज़टीकासहिते धर्मरत्नकरण्डके
तद्भद्रे ! देवदेवोऽयं, सर्वामरनरार्चित: । पूजनीयो विशेषेण, किं शेषैः पूजितैः सुरैः ॥१०६।। तदत्र मत्सरं मुक्त्वा, मुक्त्वा मिथ्याभिमानिताम् । जगद्धितमिमं देवं, सपूजं कुरु सर्वदा ॥१०७॥ सा प्राह सर्वमेवेदं, करिष्याम्येवमेव हि । नान्यथा जायते तत्तु, यच्चित्ते चिन्तितं त्वया ॥१०८॥ चिन्तानन्तरमेवाशु, येनाराम: स शुष्कक: । त्वत्प्रभावेण सञ्जातः, सद्य: पुष्पफलाकुलः ॥१०९।। तदिदं सर्वथा मुक्तं, वैर पूर्वभवानुगम् । प्रतिपन्नश्च देवोऽयं, देवत्वेन मयाधुना ॥११०॥ अतस्त्वं मेऽधुना बन्धु-गौरव्यो गुरुसन्निभः । इदं गृहाण मत्तुष्टि-हेतवे रत्नपञ्चकम् ॥१११।। तत्र यक्षगृहस्याग्रे, सवृक्षो य: प्रदृश्यते। सर्वरोगहरश्चायं, नामत: कर्मतस्तथा ॥११२॥ द्वितीयश्च तदासन्ने, दृश्यते यो महाद्रुमः । सर्वविषापहो नाम्ना, ख्यातोऽयं क्रियया तथा ॥११३॥ एतयो: पुष्पपत्राणि, फलानि च गृहाण भो ! । येन मे जायते तुष्टि-र्मा मोघां प्रार्थनां कृथाः ॥११४॥ तथेदं भो गृहाण त्व-मौषधीद्वयमुत्तमम् । एकां संरोहिणीनाम्नी, शल्योद्धारकरा परा ॥११५॥
अयं च गृह्यतां बन्धो !, हार: सौभाग्यसुन्दरः । दुर्भगस्यापि सौभाग्य-कारको मम तुष्टये ॥११६॥ ततश्च फलदेवोऽपि, लात्वा तद्रत्नपञ्चकम् । वनमालोपरोधेन, पूजयंस्तत्र तं जिनम् ॥११७॥ दिनानां पञ्चकं स्थित्वा, वनमालाविसर्जित: । अचलद्यानपात्रस्थ:, स्वाभिप्रेतदिशं प्रति ॥११८॥ समुल्लङ्घ्य ततस्तूर्ण-मम्भोधेर्भूयसीं भुवम् । सुवर्णवालुकाख्याया, नद्या मुखमुपागतः ॥११९।। ततो जलेन्धनाद्यर्थं, प्रेषिता: पुरुषा निजा: । गत्वा तेऽपि समायाता, जलाधादाय सत्वरम् ।।१२०॥ शिष्टं च फलदेवाय, यद् दृष्टं कौतुकं तकैः । यथास्माभिर्गतैस्तीरं, दृष्टैका वरकन्यका ॥१२१॥ वंशकुडङ्गमध्यस्था, यौवनारम्भवर्तिनी । सविषादा रुंदन्तीं च, भयसम्भ्रान्तलोचना ॥१२२।। कुडङ्गानातिदूरेण, ददृशे पुरुषद्वयम् । पतितं भूतले शस्त्र-प्रहारशतसङ्कुलम् ॥१२३॥ अन्तःशल्यं समासन्न-मरणादतिदुःखितम् । श्रुत्वेदं फलदेवोऽपि, समुत्तीर्य द्रुतं तत: ॥१२४॥ आरुह्य द्रोणिकां लघ्वी, कियद्भिः-सुभटैः सह । गतस्तत्र क्षणादेव, दृष्टौ च पुरुषो तकौ ॥१२५।।
शल्योद्धरणिकानाम्नी, 'कृष्टा सा चौषधी ततः ।
दत्ता व्रणमुखेष्वाशु, ततः शल्यानि निर्ययुः ॥१२६।। संरोहिणीप्रयोगेण, व्रणा: संरोहिता: क्षणात् । स्वस्थावस्थौ च तौ जातौ, पुमांसावौषधीगुणात् ।।१२७॥ पृष्टौ च फलदेवेन, यथा भो: ! किमु कारणम् । युवां यदत्र शस्त्रौघ-प्रहारशतजर्जरौ ॥१२८॥ गतौ च मरणावस्थां, पतितावत्र भूतले । ताभ्यामुक्तं महाभाग!, श्रूयतां तव कथ्यते ॥१२९॥ आवां हि भ्रातरौ विद्धि, द्वावपि च सहोदरौ। पुत्रौ च चन्द्रचूडस्य चन्द्रश्रीकुक्षिसम्भवौ॥१३०॥ सुचन्द्रपूर्णचन्द्राख्यौ, बन्धूनामतिवल्लभौ। विद्याधरौ सदा प्रीत्या, वर्तावहे परस्परम्॥१३१॥ अन्यदा पूर्णचन्द्रेण, भ्राम्यता धरणीतलम् । सिंहलद्वीपमध्यस्थे, पुरे सिंहपुराभिधे ।।१३२।। १ शृष्टा-BICT
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org