________________
अधिकार २ / श्लोक ५०-५९ / फलपूजायां फलसारकथा ६
१०५
कालेन गच्छता जाता, सा राज्ञोऽतीववल्लभा । अहं पुनरनिष्टेति, दुर्गदौर्भाग्ययोगत: ॥७८॥ किंबहुना तयाकारि, वशवर्ती नराधिप: । युक्तमयुक्तकं वापि, करोत्येव स तद्वचः ॥७९।।
अन्यदा च सुतस्तस्या, जातो रत्नप्रभाभिध: । क्रमेण यौवंन प्राप्तः, नारीजनमनोहरम् ॥८०॥ प्रधानराजपुत्रीश्च, महर्द्धया परिणीतवान् । बुभुजे कामजं सौख्यं, ताभि: सार्धं स सन्ततम् ॥८१॥ अन्यदा भणितो राजा, सादरं रत्नमालया । यथामुं मामकं पुत्रं, यौवराजपदे कुरु ॥८२॥ तेनापि तत्तथाचक्रे, सर्वं तद्वशवर्तिना । अतीव च पराभूतः, शंखनामा महीभुजा ।।८३॥ ततोऽसौ वनमालाया, अनाख्यायैव निर्गत: । दूर देशान्तरं प्राप्तो, बम्भ्रमीति स्म भूतले ।।८४॥ तथेदं मन्दिरं जैनं, कारितं रत्नमालया। आरामश्चाभिरामोऽयं, नानावृक्षसमाकुल: ।।८५।। वनमाला पुनश्चेदं, सुन्दरारामराजितम् । प्राकारवेष्टितं तुझं, यक्षालयमचीकरत् ॥८६॥ वहन्ती रत्नमालासौ, वनमालां च मत्सरम् । व्याघातं यक्षपूजाया:, प्रचक्रे राजवर्चसा ॥८७ आदाय सर्वपुष्पाणि, सर्वारामोद्भवानि सा । कारयति सदा पूजां, स्वकीये जिनमन्दिरे ॥८८॥ तयाभिभूयते बाढं, वनमाला पदे पदे । 'दूयते च दृढं चित्ते, तत: सैवमचिन्तयत् ।।८९।। राजा च रत्नमाला च, कुर्वाते मे पराभवम् । न शक्ताहममुं सोढुं, तस्मादग्नौ विशाम्यहम् ॥९०॥ वहन्ती मत्सरं घोरं, तत सा दम्पती प्रति । अवज्ञाता च सा राज्ञा, प्रविवेश हुताशने ॥९॥ मृत्वा च व्यन्तरी जाता, विज्ञाय ज्ञानतस्तत: । आगत्य रुष्टया तूर्णं, शङ्खचूडो निपातितः ॥९२॥ ससुता रत्नमाला च, शेषलोको बहुस्तथा । शङ्खावर्त पुरं दग्धं, धनधान्यसमाकुलम् ।।९३।। तथा सर्वोऽपि देशोऽयं, निर्दह्योद्वासितस्तया । शोषितश्चायमाराम:, प्राकारश्चास्य पातित: ॥१४॥ देवकुलानि सर्वाणि, सम्भग्नान्यत्र कानने। अथेदं भक्तुमारब्धा, मौलं देवकुलं च सा ॥९५।। न शशाक परं भक्तुं, प्रतिष्ठागुणगौरवात् । सा चाहं वनमालेति, व्यन्तरीत्वमुपागता ॥९॥ श्रुत्वेदं फलदेवेन, जजल्पेऽमलया गिरा। यदहं वच्मि हे भद्रे !, त्वं कोपं तत्र मा कृथाः ॥१७॥ नेदं मे सङ्गतं भाति, भद्रे ! यच्चेष्टितं त्वया। निरागसोऽपि यल्लोका, एतावन्तो निपातिता: ।।९८॥ इदं च पुनरत्यन्त-मसङ्गततरन्तरम् । यदेव देवदेवोऽय-मपूज्यस्त्वयका कृतः ॥१९॥ धर्मार्थमेव यक्षोऽपि, पूज्यते च भवादृशैः । धर्मार्थिना च पूज्योऽसौ, यो देवस्त्रिजगत्प्रभुः ।।१००। त्रैलोक्यप्रभुता ताव-द्यक्षस्यास्य न विद्यते । तत्संसूचकलिङ्गानां, यच्छरीरेऽप्यदर्शनात् ॥१०१॥ अस्य तु देवदेवस्य, त्रैलोक्यप्रभुतां स्फुटम् । छत्रत्रयादिचिह्नानि, व्यञ्जयन्ति न संशयः ॥१०२॥ तथाहि-श्वेतछत्रत्रयं प्रेड-नानारत्नविराजितम् । शंसत् त्रैलोक्यनाथत्व-मस्योपरि विराजते ॥१०३॥ उभयपार्श्वयोश्चेमौ, सुरौ चामरधारिणौ । व्यक्तं देवोधिदेवत्वं, व्यञ्जयन्तौ विराजतः ॥१०४।। सिंहासनं च सौवर्णं, भास्वद्रत्नौघमण्डितम् । अस्येह ख्यापयत्येव, त्रैलोक्यमहनीयताम् ॥१०५।। १ दूम्यते- BJPC ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org