________________
१०४
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
कोऽयं भो दृश्यते शैल-स्तैरूचे मलयाभिध: । गच्छतामुं प्रपश्याम, एवमस्त्विति ते जगुः ॥५१॥ ततश्चोत्तीर्य पोतेभ्यो, गतस्तत्र सकौतुकः । युक्त: शौर्ययुतैर्योधैः, कैश्चिद्वणिक्सुतैस्तथा ॥५२॥ आलोक्य सर्वत: शैल-मुत्तीर्णाश्च ततो भुवि । [ते सर्वे हर्षिता बाँढं, पश्यन्तिस्माभितस्तत: ॥ यावदेकत्र पश्यन्ति, वरारामद्वयं महत् । शूष्कमेकं तयोर्बाढ-मेकमत्यन्तशाड्वलम् ॥५४॥ तयोर्मध्ये पुनदृष्टं, जीर्णं देवकुलद्वयम् । ततस्तत्रापि ते जग्मु-र्धाम्यन्ति स्म समन्तत: ॥५५॥ ततश्च फलदेवोऽसौ, शुष्कारामं प्रविष्टवान् । तस्मिन्देवकुले यत्तु, तस्य मध्ये जगाम सः ॥५६॥ तथा पश्यन् जिनेन्द्रस्य, बिम्बं सर्वाङ्गसुन्दरम् । विलोक्य च प्रहृष्टोऽसौ, मनस्येवं व्यचिन्तयत् ॥५७।। अहो देवाधिदेवोऽयं, पूज्योऽयं सर्वदेहिनाम् । तदेनमहमप्यद्य, पूजयामीति तर्कयन् ।।५८॥ बहिर्देवकुलाद्याव-निष्क्रान्त: पुष्पहेतवे । तावद् दृष्टः स आराम:, सद्य: पल्लवितद्रुमः ॥५९॥ पुष्पित: फलित: सान्द्रः, साड्वलो घनसन्निभः ।।५९All ततश्चादाय पुष्पाणि, पूजित: परमेश्वरः । गृहीत्वा फलपूगं च, तत्पुरो रचितो बलि: ॥६०॥ तत: प्रणम्य तं देवं, भक्त्या चिरं विलोक्य च । सम्प्राप्ताशेषकल्याण-मात्मानमिति कल्पयन् ॥६१॥ विनिर्गत्य स तत्स्थानाद्, द्वितीयाराममागत: । देवकुलं च तत्रस्थं, प्रविवेश स कौतुकी ॥२॥ दृष्टा च तत्र यक्षस्य, प्रतिमातिमहोदरा। सुभोगा शुभसद्गन्धन्ध-पुष्पमालाभिरर्चिता ॥६३॥ ततोऽसौ चिन्तयामास, साश्चर्यो निजमानसे । अहो एकप्रदेशेऽपि, तथैकस्मिन्नृतावपि ॥६४॥ एकोऽयं शुष्ककारामो, द्वितीयस्त्वभिशावल: । एको देवाधिदेवोऽयं, केनापीह न पूज्यते ॥६५।। पूज्यतेऽसौ तथा नित्यं, तेनोच्चैर्विस्मयो मम । कारणेनात्र भो भाव्यं, ज्ञातव्यं तत्कथं मया ॥६६।। यावदेवं स तत्रास्ते, विकल्पाकुलमानस: । तावत्पुर: स्थितामेकां, ददर्शासौ वरस्त्रियम् ॥६७|| पृष्टा च सा यथा का त्वं ? कुतो वा कुत्र तिष्ठसि । सा प्राह देवतात्राहं, वसामि वरकानने ॥६८|| यक्षमेनं सदाकालं, सपूजं कुर्वती सती । रक्षन्ती च निजोद्यानं, नानावृक्षसमाकुलम् ॥६९॥ स प्राह शुष्ककारामे, योऽयं देवोऽवतिष्ठते । तं सपूजं किमित्यत्र, न करोषि निवेदय ॥७०॥ तथा शुष्क: स आरामो, भद्रे! चायं तु शाड्वल: । ममैतत्कौतुकं भाति, यदि वेत्सि तदा वद॥७१॥ तयोक्तं श्रूयतां भद्र!, सावधानेन चेतसा । आसीदत्र पुरं रम्यं, शङ्खावर्ताभिधं महत् ॥७२॥
___ बभूव तत्र विख्यातः, शङ्खचूडाभिधो नृपः।
तद्भार्या वनमालारव्या, रूपसौभाग्यशालिनी॥७३॥ पुत्रश्च वनमालाया:, शङ्खनामा तथाजनि । स पित्रा यौवनं प्राप्तो, यौवराजपदे कृतः ॥७४।। छत्रचामरहस्त्याद्यं, तस्मै दत्तं महीभुजा । ततोऽसौ भुज्यते भोगान्, विलसन् राजलीलया ।।७५।। इतश्च दक्षिणश्रेण्यां, वैताढ्येऽस्ति महापुरम् । रथावर्तं प्रभुस्तत्र, विद्याधरो मणिप्रभः॥ तद्भार्या रत्नरेखाख्या । रत्नमाला च तत्सुता। सान्यदा शङ्खचूडेन, मळ पर्यणीयत॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org