________________
अधिकार २ / श्लोक ५०-५९ / अक्षतपूजायां कणसारकथा ५
१०३
ततोऽसौ चिन्तयामास, विस्मयाकुलचेतसा । अहो ! मे पुण्यविस्फूर्ति-रहो मे चलिता दशा॥२६॥ येनैते सर्वतो रम्या:, पुष्पिता: फलिता द्रुमाः । मन्ये जातं ममैश्वर्यं, दूरं नष्टा दरिद्रता ॥२७॥ ततस्तेन समाकार्य, शीघ्रं कर्मकरान् बहुनु । नालिकेरादिवृक्षेभ्यो, जग्रहे तत्फलोत्करा: ॥२८॥ ततस्तानपि विक्रीय, लब्धं द्रव्यं यथेप्सितम् । क्रमेण जातमैश्वर्यं, लोकमध्ये च गौरवम् ॥२९॥
यत:- मंदरतुल्लावि नरा, अत्यविहूणा हवंति तिणतुल्ला ।
तिणतुल्लावि हु अत्थेण, परिगया मंदरसमांणा ॥३०॥ यस्यार्थास्तस्य मित्राणि, यस्यास्तस्य बान्धवाः ।
यस्यार्थाः स पुमान् लोके, यस्यार्था स च पण्डितः ।।३१।। जातियतु रसातलं गुणगणस्तस्याप्यधो गच्छतात्, शीलं शैलतटात्पतत्वभिजन: सन्दह्यतां वह्निना। शौर्ये वैरिणि वज्रमाशु निपतत्वर्थोऽस्तु न: केवलो, येनैकेन विना गुणास्तृणलवप्राया: समस्ता अमी॥ एवं चैश्वर्ययुक्तोसौ, फलसार: फलैः कृतः । मान्यते सर्वलोकेन, सर्वकार्येषु सादरम् ॥३३॥ अथान्यदास्य गेहिन्या:, कुक्षौ पुष्पश्रियोऽजनि । गर्भस्ततश्च सा तुष्टा, तमुवाह यथासुखम् ॥३४॥ भ; संपूरिताशेष-दोहदा समये च सा । प्रसूता सुन्दरं पुत्रं, सर्वलक्षणसंयुतम्॥३५।। कारितं च तत: पित्रा, महोत्सवपुरस्सरम् । कृतबन्धुजनानन्दं, वर्धापनकमञ्जसा ॥३६॥ स्वप्नानुसारतस्तस्य, पित्रा नाम प्रतिष्ठितम् । फलदेव इति ख्यातं, विभूत्या बन्धुभि: सह॥३७॥ यथा यथा गृहे तत्र, बालोऽसौ परिवर्धते । [तथा तथा तदारामे, फलवृद्धिरपीष्टदा] ॥३८॥ एवं च वर्धमानोऽसौः, वयसाऽऽप्तमनोरथ: स्वीकृऽऽताशेषविद्यश्च, सम्प्राप्तो वरयौवनम् ॥३९॥ ततश्व जनकेनैष, महर्द्धया परिणायित: । कन्यकां वसुदत्तस्य, वसुश्रीरितिनामिकाम् ॥४०॥ एवं च पूर्णसर्वेच्छो, भुङ्क्ते भोगांस्तया सह । प्रावीण्यं च परं बिभ्र-त्कलासु सकलास्वपि ॥४१॥ अथान्यदा हृतस्तस्य, पिता हतकमृत्युना । कृतानि मृतकृत्यानि, विशोकश्चाऽजनि क्रमात् ॥४२॥ बन्धुभि: स्थापित: प्रीत्या, फलदेव: पितु: पदे । सर्वं सर्वजनानिन्द्यं, व्यवहारं चकार स: ॥४३॥ की, रूपेण लक्ष्म्या च, सौजन्यादिगुणैस्तथा। शेषलोकै: समं तेन, व्यतिक्रान्तो निज: पिता॥४४|| अन्यदा कारितास्तेन, पोता: पञ्च महालया: । कृत्वा समग्रसामग्री, क्रमेण प्रगुणीकृताः ॥४५॥ प्रधानभूरिभाण्डानां, पोता: पञ्चापि ते भृता: । प्रभूतदिनयोग्यं च, सङ्गृहीतं जलेन्धनम् ।।४६|| शोभने तिथिनक्षत्रे, समारूढस्तत: स्वयम् । दुर्योधयोधसङ्घातैः, सार्धं वणिक्सुतैश्च सः ॥४७॥ ततश्च प्रेरिता: पोता:, सिंहलद्वीपसन्मुखम् । तूर्णं गन्तुं समारब्धा-स्तूर्यध्वानभृताम्बरा: ।।४८।। उल्लङ्घ्य भूयसीं भूमि, स्तोकैरपि दिनैर्जवात् । प्राप्ता मलयदेशस्य, सम्बन्धं चन्दनशोभितम् ॥४९।। दूरादेव ततो दृष्टवा, शोभितानि वनथ्रिया । मलयाचलशृङ्गाणि, फलदेवोऽब्रवीदिदम् ॥५०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org