________________
१०२
आचार्य श्रीवर्धमानसूरिरचिते स्वोपज्ञटीकासहिते धर्मरत्नकरण्डके
फलपूजायां फलसारकथा
साम्प्रतं फलपूजाया, दृष्टान्तोऽयं प्रदर्श्यते । श्रूयतां सावधानेन, चेतसा पुण्यहेतवे ॥१॥ अस्तीह लोकविख्यातं, सोपाराभिधपत्तनम् । नानावृक्षसमाकीर्णं, रम्यारामविराजितम् ।।२।। बभूवारामिकस्तत्र, फलसाराभिधानकः । सदापि सफलारम्भ-प्रभूतारामनायकः ॥३॥ अन्यदा च तदारामाः, सर्वे दुर्वातदोषत: । शुष्का अकाण्ड एवाशु, न यच्छन्तीप्सितं फलम् ।।४।। फलाभावेन तस्यासी-दारिद्यमतिदारुणम् । ततोऽसौ सर्वलोकानां, जात: परिभवास्पदम् ॥५॥ यत:- दौर्गत्यं देहिनां दुःखं, किमन्यैः कीर्तितैः पुनः ।
इहैव येन जायन्ते, जीवन्तोपि मृता इव ॥६॥ दैन्यस्य पात्रतामेति, पराभूते: परं पदम् । विपदामाश्रय: शश्वद्, दौर्गत्यकलुषीकृत: ॥७॥ नीचानपि हि सेवन्ते, पालयन्ति पशूनपि । समुद्रमपि लङ्घन्ते, दारिद्योपहता नरा: ॥८॥ मूर्तं लाघवमेवैत-दपायानामिदं गृहम् । पर्यायो मरणस्यैष, दारिा नाम यज्जना: ॥९॥ लज्जन्ते बान्धवास्तेन, सम्बन्धं गोपयन्ति च । न भजन्ते यथा पूर्वं, यस्य स्तोका: कपर्दिकाः ॥१०॥ परगेहे कदन्नानि, दत्तान्युच्चैरवज्ञया । प्रभुङ्क्ते चाश्रुमिश्राणि, दौर्गत्यात्किमत: परम् ॥११॥ धार्मिकोऽपि विनीतोऽपि, वृद्धो वा पूजितोऽपि वा. जनैर्दरिद्रः सावज्ञं, चाण्डाल इव दृश्यते॥१२॥ शौचावशिष्टयाप्यस्ति, किञ्चित्कार्यं क्वचिन्मृदा। निर्धनेन नरेणेह, तावन्मात्रं न विद्यते ॥१३॥ दुरुत्तारो महापङ्कः, शल्यं दुःखदमुच्यते । दुर्लध्यमेतत्कान्तारं, यद्दरिद्रस्य जीवितम् ॥१४|| स एव नरको घोर-स्तदेतद्व्यसनं महत् । सेयं कष्टा दशा पुंसां, दारिद्यं नाम यज्जनाः ॥१५॥ स्पष्टेऽपि वासरे सत्यं, दौर्गत्यतमसावृतः । अग्रतोऽपि स्थितो यत्ना-न केनापीह दृश्यते ॥१६॥ अतिसन्तिष्ठमानोऽपि, प्रमोदादीश्वरे जने । कार्याय कल्प्यते क्षुदै-र्धिग्दौर्गत्यमसङ्गतम् ॥१७॥ अन्यस्य विनयेनापि, दरिद्रो यदि तिष्ठति । अर्थित्वपक्षे तदपि, क्षिप्यते निखिलं खलैः ॥१८॥ एवं च फलसारोऽसौ, 'दुर्गदारियखेदित: । कष्टां दशां समापन्नः, कष्टं नयति वासरान् ।।१९॥ अन्यदा गृहिणी तस्य, पुष्पश्रीनामिक़ा किल । रजन्यां पश्चिमे यामे, शयाना शयनीयके ॥२०॥ स्वप्नेऽपश्यन् निजारामान्, पल्लवितान् समन्तत: । चारुपुष्पफलोपेतान्, नयनानन्ददायकान् ॥२१॥ शिष्टः स्वप्नस्तया भर्तु-स्तेनाभाणि तव प्रिये ! । भविता सुन्दरः पुत्रः, समीहितफलप्रदः ॥२२॥ प्रतीच्छय वचनं भर्तु-निजस्थानं जगाम सा । गमितो रात्रिशेषश्च, धर्म्यया कथया तया ॥२३॥ फलसारोऽपि सानन्दो, दृष्टः स्वप्नो वरोऽनया। जल्पन्नेवं गत: प्रात-निजारामेषु सत्वरम् ॥२४।। यावदालोकते सर्वान्, पुष्पितान् फलितांस्तथा । सर्वत: शाड्वलानुच्चैः, सिक्तानिवामृतप्लवैः ॥२५॥ १ दुर्गदारिद्यभूमित:- BPJ |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org