________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
__ इह हि संसारिणां चतुर्गतिगर्तनिपातमहाकष्टसन्तापाध्मातशरीरमानसानां तद्व्यवच्छेदाय सत्प्रवृत्तिनिबन्धनं जिनेन्द्रसपर्यादिष्वष्टादशसु द्वारेषु प्रतिद्वारं स्वरूप-फलाद्यभिधायकवृत्तद्वयमुक्ताफलालङ्कतं धर्मशिक्षाभिधानमहामुक्ताकलापरूपं चत्वारिंशद्वृत्तप्रमाणं प्रकरणं श्रीजिनवल्लभसूरिराविश्चकार । तत्र चादौ तावद्विघ्नविनायकोपशान्तये शिष्टसमयपरिपालनाय चेष्टदेवतानमस्कारं षडरकचक्रबन्धेन स्वनामाङ्कितेनाह—
नत्वा भक्तिनताङ्गकोऽहमभयं नष्टाभिमानक्रुधं विज्ञं वर्द्धितशोणिमक्रमनखं वर्षं सतामिष्टदम्। विद्याचंक्रविभुं जिनेन्द्रमसकल्लब्धार्थपादं भवे
वेद्यं ज्ञानवतां विमर्शविशदं धर्म्य पदं प्रस्तुवे॥१॥ व्याख्या-अहं जिनेन्द्रं नत्वा धर्म्य पदं प्रस्तुव इति सम्बन्धः। तत्र नत्वा प्रणम्य, कमित्याह-जिनेन्द्रं जितराग-द्वेष-मोहेषु जिनेषु सर्वेष्वपि चत्वारिंशदतिशयोपेतत्वेन इन्द्रं स्वामिनम्। कीदृशोऽहम्? भक्त्या सबहुमानबाह्यप्रतिपत्त्या नतं प्रह्वीभूतम् अङ्गं शरीरं यस्य स तथा। स एव स्वार्थिककप्रत्ययान्तत्वाद् भक्तिनताङ्गकः। अहमित्यात्मनिर्देशे। किंविशिष्टं जिनेन्द्रम्? अभयम् इहलोकभयादिसप्तविधभयविकलम्। भयस्य च नोकषायविशेषस्याभावेन नवनोकषायवैकल्यमुपलक्ष्यते, तेन सर्वनोकषायरहितमित्यर्थः। तथा नष्टाभिमान-क्रुधं विलीनाहङ्कार-क्रोधम् । अत्राप्यभिमान-क्रोधाभ्यां कषायाश्चत्वारोऽपि सप्रभेदा उपलक्ष्यन्ते, तेन षोडशकषायरहितमित्यर्थः। अनन्तानुबन्धिकषायसहचरोदयत्वाद् मिथ्यात्वस्य तस्याप्यभावोऽवबोद्धव्यः। एतावता हेयपक्षहीनमुक्तम्। तथा विशेषेण जानाति वेत्तीति नाम्युपधेत्यादिना कप्रत्यये विज्ञमिति। विमलकेवलज्ञानावलोकेन १. नाम्युपधप्रीकृगृज्ञां कः-इति कातन्त्रव्याकरणे ४ । २१ ५१ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org