________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
समस्तवस्तूनां विशेषरूपतया प्रतिपत्तारम्, केवलविज्ञानस्य च समयान्तरितकेवलदर्शनसहचारित्वात् सर्वदर्शिनमित्यपि द्रष्टव्यम्। तथा वर्द्धितं वृद्धिं गतः शोणिमा आरक्तत्वं येषां ते वर्द्धितशोणिमानस्तथाविधा: क्रमनखाः पादांहिरुहा यस्य स तथा तम्, अनेन च सामुद्रिकलक्षणोपेतत्वं क्रमनखानां दर्शितम्। उपलक्षणं चैतत्, तेन समस्तानामप्यवयवानां सामुद्रिकलक्षणोपेतत्वं दर्शितं भवति, ततः सामुद्रिकलक्षणोपेतसमस्तावयवमित्यर्थः। तथा वयं प्रशस्यम्। केषामित्याह–सतां शिष्टानाम्, न त्वसताम्, तेषां गुणद्वेषित्वात् । न केवलं वयं किन्तु इष्टदं चाभिमतार्थसम्पादकं च, अर्थात्तेषामेव। चकारोऽत्र लुप्तो द्रष्टव्यः। तथा विद्याः सम्यग्ज्ञाननिदानशास्त्राणि आचाराङ्गादीनि लक्षण-साहित्यतर्क-च्छन्दो-ज्योतिर्मन्त्रादिशासनानि च, तासां चक्रं वृन्दम्, तस्य विभुं प्रणेतृत्वात् स्वामिनम्, दृष्टिवादान्तर्गतत्वात् सर्वविद्यानामिति भावः। तथा असकृत् अनेकशो लब्धः प्राप्तोऽर्थः सुरादिरचितमहामहिमलक्षणो यकाभ्यां तादृशौ पादौ चरणौ यस्य स तथा तम्। तथा भवे संसारे वेद्यं ज्ञेयम्। न हि ततोऽपि किञ्चिदन्यत् परमात्मरूपं वेद्यमस्तीति भावः। केषामित्याह-ज्ञानवतां सम्यगवबोधभाजां तथा विमर्शनं विमर्शः पुनः पुनरनुध्यानं तेन विशदं निर्मलम्, अथवा धर्म्यपदस्यैवेदं विशेषणं तदपि विमृश्यमानं विशदीभवतीति। ततः किमित्यभिधेयमाह—प्रस्तुवे प्रारभे । किं तदित्याह-पद्यते गम्यते निःश्रेयसानुगुणोऽर्थोऽनेनेति पदं विशुद्धं वचनम्। कीदृशम्? धर्मे दुर्गतिगर्तनिपतजन्तुजातधारणप्रवणेऽध्यवसाये तत्पूर्वकेऽनुष्ठाने च साधु धर्म्य धर्मानुगतमित्यर्थः। अयं च नमस्कारो यथाभूतान्यासाधारणगुणोत्कीर्तनरूपत्वाद्भावस्तवः। तत्र गुणा मूलातिशयाश्चत्वारोऽपायापगमातिशयो ज्ञानातिशयः पूजातिशयो वागतिशयश्चेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org