________________
ॐ नमो जिनपतये।
महाकवि-श्रीजिनवल्लभसूरि-प्रणीतं
धर्मशिक्षा-प्रकरणम्
महोपाध्यायजिनपालगणिविरचितवृत्तिसमेतम्
[वृत्तिकृन्मङ्गलाचरणम्] विषमविशिखशिक्षाक्षुण्णसद्भावनानां त्रिजगति भवभाजां धर्मशिक्षाप्रयोगात् । विहितशिवसुखश्रीसङ्गमः सुप्रसन्नो
जिनपतिशशिकान्तिर्मङ्गलं वस्तनोतु ॥१॥ श्रीजिनवल्लभशुभगुरुविरचितसुविचारधर्मशिक्षायाः। विवरणमतितनुमतिरपि गुरुप्रसादात् किमपि वच्मि ॥ २॥ सालङ्काराः सदाः श्रुतिसुखदपदन्याससारा गभीरा गीर्वाणामात्यबुद्धेरपि विषयपथं या न सम्यक् प्रयान्ति । वाचस्ता धर्मशिक्षाप्रकरणनृपतेरुद्यमो यो विवेक्तुं नूनं कल्लेलमाला गणयितुमभवन्मे स सर्वान्त्यसिन्धोः॥३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org