________________
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
तस्य धाम गृहं तत्र । यथा कस्याश्चिद्विदग्धवनितायाः केनचित् सुकृतिना सह क्वचिद् गृहे संकेतेन सङ्गमो भवति तथा भव्यस्याप्यत्र विनये व्यवस्थितस्य सतो निःश्रेयसश्रीसंगमो भवतीति वृत्तार्थः॥ ३६॥
तथा
मूलं धर्मद्रुमस्य धुपतिनरपतिश्रीलताकल्पकन्दः सौन्दर्याह्वानविद्या निखिलसुखनिधिर्वश्यता योगचूर्णः। सिद्धाज्ञाऽमन्त्रयन्त्राऽधिगममणिमहारोहणाद्रिः समस्तानर्थप्रत्यर्थि तन्त्रं त्रिजगति विनयः किं न किं साधु धत्ते॥३७॥ व्याख्या-मूलमादिकारणं कस्येत्याह-धर्मः श्रुतचारित्ररूपः स एव नानाऽवान्तरभेदशाखादिमत्त्वाद् द्रुमः तरुस्तस्य। तथाहि आदावेव धर्माधिकारिणि पुरुषेऽर्थिसमर्थसूत्राप्रतिक्रुष्टरूपेऽर्थिनो लक्षणमुक्तम्। 'अत्थी उ जो विणीओ [ ] त्ति । तथोपदेशमालायामभ्यधायि-'विणओ सासणे मूलं [उप०] इति । तथा धुपतयः स्वर्गनायका नरपतयः राजानस्तेषां श्रीः लक्ष्मी: सैव वर्द्धमानधर्मकत्वाल्लता शाखा तस्या आरोहे कल्पकन्दः कल्पितार्थप्रदतरुविशेषाद्यकारणभेदः, इतो हि क्रमेण प्राप्तधर्म: स्वर्गनायकादिलक्ष्मीः प्राप्नोतीति भावः। तथा सौन्दर्यं रूपातिशयत्वे सति नयनलेह्यन्वयलक्षणं लावण्यम्, तस्याहानाय आकर्षणाय विद्या संसाधनमन्त्रविशेषः। यथा आकर्षणविद्यया दूरतो वनितादिकमाकृष्यते तथा विनयेनापि सौन्दर्यमिति भावः। निखिलसुखानां माऽमर्त्यशिवप्रमोदानां निधिः स्वर्णरत्नादिपूर्ण: कलशः। यथा तत्र रत्नकनकादिकमनायासेनैव प्राप्यते तथा विनये समस्तमपि सुखमिति भावः। तथा वश्यता परेषां वशीकारस्तन्मानसावर्जनम् । तत्र योगा वशीकारकपदार्थानां मेलकस्तस्य चूण्णः क्षोदः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org