SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ८८ धर्मशिक्षा-प्रकरणं सवृत्तिकम् तस्मादीहितदानकल्पविटपिन्युल्लासि निःश्रेयस श्रीसम्बन्धविधानधाम्नि विनये यत्नं विदध्याद् बुधः॥३६॥ व्याख्या-प्राहुः प्रकर्षेण ब्रुवतेऽर्थात् पूर्वाचार्या इति गम्यते । कमित्याहजनं लोकम्। कीदृशम्? अविनीतं गुर्वादिष्वप्यासनदानादिप्रतिपत्तिवर्जितम्। कीदृशं प्राहुः? दाहकमेव अवश्यमन्तस्तापजनकमेव, सर्वस्यापीत्युत्सर्गः। पावकमिवेत्युपमानं ज्वलनवदित्यर्थः। किं सर्वथाप्येवमेवैत्? नेत्याह-प्रायो बाहुल्येन वचित् कदाचित् कस्यचिदनाभोगतोऽविनीतत्वेऽपि गुर्वादेर्वात्यन्तप्रशान्तत्वेन दाहकत्वाभावात्। न खल्विति भिन्नक्रमेणैव प्राप्नोति लभते एष दुर्विनीतः। कामित्याह-स्वस्यात्मन इष्टः अभिमतोऽर्थः प्रयोजनं द्रव्यलाभः शास्त्रलाभो वा तस्य सिद्धि प्राप्तिम्। क्वचिदिति देशे काले वा, नासौ देशः कालो वास्ति यत्र दुर्विनीतस्येष्टार्थसिद्धिरिति। तदुक्तम् अविणीयजणो न कया वि इट्ठसिद्धिं कहिं पि पाउणइ। सग्गापवग्गसंसग्ग-सुक्खरहिओ भवे भमइ । तदेवं विनयस्य व्यतिरेकतः फलमभिधायाथ तस्यैवान्वयतः फलमाहयतो दुर्विनीतस्येयं गतिस्तस्माद्धेतोः विनये आराधनीयविषयप्रतिपत्तिविशेषविधानरूपे विदध्यात् कुर्याद् बुधः पारमार्थिकविवेकी। कीदृशे? ईहितं वाञ्छितम्, इहलोके तावल्लक्ष्म्यादिकं तस्य दानं वितरणं तत्र कल्पविटपिनि कल्पितार्थप्रदतरुविशेषे तथा जन्मान्तरेऽपि परम्परया उल्लासिनी सर्वावरणविशेषप्रक्षयेणादित्यप्रभैव प्रोज्जृम्भमाणा सा चासौ निःश्रेयसश्रीश्च मोक्षलक्ष्मीश्च तया सम्बन्धः सङ्गमस्तस्य विधानं करणं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002705
Book TitleDharmshiksha Prakaranam
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherPrakrit Bharti Academy
Publication Year2005
Total Pages142
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy