________________
८७
धर्मशिक्षा-प्रकरणं सवृत्तिकम्
ख्यात्या। अत एव पूर्ववृत्तोपात्तयशसा न पौनरुक्त्यम्। क्वेत्याहत्रिलोकाङ्गणे जगत्त्रयाजिरे। तथा सौख्यैः आनन्दैरुच्चकृषे, यत्र यत्र राज्यादिलाभे यानि यानि सुखानि तानि तानि सर्वत्र पूर्वेभ्य उत्कृष्टतराणि भवन्तीति भावः। एवं श्रियापि राज्यादिलक्ष्म्यापि प्रववृधे पूर्वस्या अधिकतरं वृद्धिं गतम्। बुद्ध्या वाचस्पतेरप्यभिभाविकया मत्या जजृम्भे विचकसे, पूर्वतः सातिशयया बभूवे इति भावः। अत एवाह-भृशम् अत्यर्थम्। एवमैहिकं गुणवर्द्धनादिफलमभिधायाथ पारभविकमप्याहस्वर्लक्ष्म्या विशिष्टरूपरत्नादिदेव्यादिसमृद्ध्या ददृशे दृष्टम्। विधिदानदातुरिति सर्वत्र योज्यम्। कथमित्याह-सतर्षं सस्पृहं सङ्गमाभिलाषेण, न तु शत्रुप्रभृतिवद् द्वेषानुबन्धेनेत्यर्थः। तथा अभितः सर्वतोऽत्यन्तादरेण। किमित्याह-वीक्षाम्बुभूवे आलुलोके। कयेत्याह-शिवः मोक्षः स एव सततमानन्दातिशयाधायकत्वसाधर्म्यात् प्रेयसी प्रियतमा तया। यथा काचिदत्यन्तानुरक्ता विदग्धविलासिनी हृदयेप्सितकान्तं कामयमाना सर्वतोऽप्यवलोकते तथा दातुर्मुक्तिकान्तेति भावः। कस्यैतदेवमित्याहविधिना पूर्वोक्तेन दायकशुद्धयादिना दानदातुः स्वद्रव्यव्ययकारिणः। कियद्वा तत्फलं वर्ण्यत इत्याह-कैर्वा अनिर्दिष्टस्वरूपैः प्रभूतैर्वा न लिल्ये न लीनं शुभैः कल्याणैः समृद्धयादिभिरपि तु सर्वैरपि। तदैवमैहिकपारभविकसुखशतनिदाने दाने सादरं प्रवर्त्तितव्यमित्युपदेश इति वृत्तार्थः॥ ३५ ।।
अथ विनये विधित्सेति सप्तदशं द्वारं विस्पष्ट यन्नन्वयव्यतिरेकाभ्यामाख्यायमानोऽर्थः सुगमो भवतीत्यभिप्रायवान् व्यतिरेकद्वारेण विनयाभाववतो दोषोपदर्शनं कुर्वन् विनयप्रवृत्त्युपदेशमाह
प्राहुर्दाहकमेव पावकमिव प्रायोऽविनीतं जनं प्राप्नोत्येष कदाचनापि न खलु स्वेष्टार्थसिद्धिं क्वचित्।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org