________________
२९
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। साध्यमानस्तत्रैव धर्मिणि लोकप्रसिद्धनाशुचित्वेन निराक्रियत इति । आह– इह हेतुदृष्टान्तोपादानं किमर्थम् ? उच्यते, लोकस्थितेर्बलीयस्त्वख्यापनार्थम् । नानुमानेनापि लोकस्थितिर्बाध्यत इत्यर्थः।।
स्ववचनविरुद्धो यथा माता मे वन्ध्या इति । इह च माता धर्मित्वेनो5 पात्ता । वन्ध्येति च साध्यो धर्मः । स च साध्यमानस्तत्रैव धर्मिणि स्ववचन- 5 प्रसिद्धन मातृत्वेन विरुध्यते । विरोधश्च मातृशब्देन प्रसवधर्मिणी वनितोच्यते, वन्ध्याशब्देन तु तद्विपरीता । ततश्च यदि माता कथं वन्ध्या ? वन्ध्या चेत् कथं मातेति ? ।
__ तथा अप्रसिद्धविशेषणो यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द 10 इति । न प्रसिद्धमप्रसिद्धम् । विशेष्यते अनेनेति विशेषणं साध्यधर्मलक्षणम् । 10 ततश्चाप्रसिद्धं विशेषणं यस्मिन् स तथाविधः । एवं शेषेष्वप्यक्षरगमनिका कार्येति। अत्र च शब्द इति धर्मिनिर्देशः । विनाशीति साध्यधर्मः । अयं बौद्धस्य सांख्यं प्रति अप्रसिद्धविशेषणः । न हि तस्य सिद्धान्ते किंचिद्विनश्वरमस्ति । यत उक्तम्तदेतत् त्रैलोक्यं व्यक्तेरपैति नित्यत्वप्रतिषेधात् । अपेतमप्यस्ति विनाशप्रतिषेधात् 15 [ योग० व्यासभाष्ये ३/१३ ] इत्यादि ।
___ आह- यद्येवं न कश्चिदपक्षाभासो नामास्ति। तथाहि- विप्रतिपत्तौ इष्टार्थसिद्धयेऽनुमानप्रयोगः । विप्रतिपत्तिरेव चैतद्दोषक/ति कुतोऽनुमानम् ? अत्रोच्यते । न विप्रतिपत्तिमात्रं तद्दोषकर्तृ, युक्तिविरुद्धत्वात् । तथाहिउपपत्तिभिदृष्टान्तसाधने कृतेऽनुमानप्रयोगः इष्टार्थसिद्धये भवति। नान्यथा। पुनः 20 साधनापेक्षित्वात् । अतो दृष्टान्तं प्रसाध्य प्रयोगः कर्तव्य इति। अप्रसाधिते तु 20 पक्षाभासः इति कृतं प्रसङ्गेन ।
तथा अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति । तत्र विशेष्यो धर्मीत्यनर्थान्तरम् । इह चे आत्मा धर्मी । चेतनत्वं साध्यधर्मः ।
15
१. लोकप्रसिद्धिर्बाध्यत P२, A ॥ २. साध्यधर्मि' P२, A ।। ३. साध्यधर्मः P२,३ A, V. R ॥ ४. 25 'नविरुद्धेन J२ ।। ५. विशिष्यते J२, ॥ ६. विनाशी साध्य J२॥ ७. दृश्यतां पृ०८१ टि० ॥८. यतः कस्यापि 25 किंचिदप्रसिद्धं भविष्यतीति टि०J२। कश्चिदपि पक्षा' R || ९. पक्षाभासदोषजनयित्री टि०J२॥ १०. कृत्स्नप्रयोगे इष्टार्थ P२, A, C || ११. आत्मा तत्र P२, A ॥ १२. च नास्ति J२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org