________________
हरिभद्रसूरिविरचितटीकासहितं टी० [८], प्रत्यक्षविरुद्ध इत्यादि । प्रत्यक्षं वक्ष्यमाणलक्षणम् । इह पुनः प्रत्यक्षशब्देन तत्परिच्छिन्नो धर्मः परिगृह्यते शालिकुडवन्याँयात् । मध्यपदलोपी वा समासः, ततश्च ‘प्रसिद्धधर्म'शब्दलोपात् प्रत्यक्षप्रसिद्धधर्मविरुद्धः प्रत्यक्षविरुद्धः ।
एवमनुमाना-ऽऽगम-लोक-स्ववचनविरुद्धष्वपि भावनीयमिति । अप्रसिद्ध5 विशेषणादिशब्दार्थं तूदाहरणनिरूपणायामेव वक्ष्यामः । सांप्रतमुदाहरणानि दर्शयति 5 ।
- तत्र प्रत्यक्षविरुद्धः इत्युद्देशः । यथा अश्रावणः शब्दः इत्युदाहरणम्। अत्र शब्दो धर्मी । अश्रावणत्वम् इति साध्यो धर्मः । अयं च साध्यमानस्तत्रैव धर्मिणि प्रत्यक्षप्रसिद्धेन श्रावणत्वेन विरुध्यते इति प्रत्यक्षविरुद्ध: । आह- श्रीवणत्वं
सामान्यलक्षणत्वात् प्रत्यक्षगम्यमेव न भवति कथं प्रत्यक्षप्रसिद्धधर्मविरुद्धः ? इति। 10 अत्रोच्यते । भावप्रत्ययेन तत्स्वरूपमात्राभिधानात् सामान्यलक्षणत्वानुपपत्तेरदोष इति। 10 अत्र च बहु वक्तव्यम्, तत्तु नोच्यते । अक्षरगमनिकामात्रफलत्वात् प्रयासस्य।
अनुमानविरुद्धो यथा नित्यो घट इति । अत्र घटो धर्मी । नित्यत्वं साध्यो धर्मः । स चानुमानप्रसिद्धनानित्यत्वेन तत्रैव धर्मिणि बाध्यते । अनुमानं चेदम्- अनित्यो घटः, कारणाधीनात्मलाभत्वात्, प्रदीपवत् ।।
आगमविरुद्धो यथा वैशेषिकस्य नित्यः शब्द इति साधयतः । 15 । वैशेषिकोऽहमित्येवं पक्षपरिग्रहं कृत्वा यदा शब्दस्य नित्यत्वं प्रतिजानीते तदाऽऽगमविरुद्धः । यतस्तस्यागमे शब्दस्यानित्यत्वं प्रसिद्धम् । उक्तं च- बुद्धिपूर्वा वाक्यकृतिर्वेदे [ वैशे०६।१।१], तद्वचनादाम्नायप्रामाण्यम् [ वैशे० १०।२।९] इत्यादि।
लोकविरुद्धो यथा शुचि नरशिरःकपालं प्राण्यङ्गत्वात् शङ्ख-शुक्तिवत् 20 इति । अत्र नरशिर:कपालं धर्मित्वेनोपादीयते । शुचित्वं साध्यो धर्मः । स च 20
१. प्रत्यक्षविरुद्धः प्रत्यक्षं P२, A ॥ २. मध्यपदलोपी वा समासः P३सं., VR मध्ये एव वर्तते ॥ ३. प्रत्यक्षधर्मविरुद्धः P२ A ॥ ४ 'मः । मध्यपदलोपी समासः सांप्र. J२मू । 'म: सांप्रत° J२सं. ॥ ५. इति नास्ति P२,३ ,A ॥ ६. श्रावण एव श्रावणत्वं तत्स्वरूपमात्रम् टि०J२॥ ७. प्रत्यक्षविरुद्धः P२, A ॥
८. साध्यधर्म: P२, A ॥ ९. बुद्धिपूर्वा वाक्यस्य कृति P३ । बुद्धिमत्पूर्वा वाक्यकृति० P२, v. C , दृश्यतां 25 पृ० ७९ टि० २। "बुद्धिमता सर्वज्ञेन प्रणीतो वेदस्तद्वचनात्" टि० J२ ॥ १०. साध्यधर्म: P२, A, V.
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org