SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २७ दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। इहापि पक्षाभास एवोच्यते – साधयितुर्मिष्टोऽपीत्यादि । साधयितुमिष्टोऽपि सिसाधयिषया वाञ्छितोऽपि, अपिशब्दात् प्रसिद्धो धर्मीत्यादितदन्यलक्षणयुक्तोऽपि। किम् ? प्रत्यक्षादिविरुद्धः । विरुध्यते स्म विरुद्धः। प्रत्यक्षादयो वक्ष्यमाणलक्षणाः, तैर्विरुद्धो निराकृतः प्रत्यक्षादिविरुद्धः। किम् ? पक्षाभासः। 5 तत्रोक्तलक्षणः पक्षः, आभासनमाभास: आकारमात्रम् । पक्षस्येवाभासो यस्यासौ 5 पक्षाभासः पक्षाकारमात्रम्। न तु सम्यक्पक्ष इत्यर्थः । तद्यथेत्युदाहरणोपन्यासार्थः । सू० [८], तत्र प्रत्यक्षविरुद्धो यथा अश्रावणः शब्द इति । अनुमानविरुद्धो यथा नित्यो घट इति । आगमविरुद्धो यथा वैशेषिकस्य नित्यः शब्द इति साधयतः। 10 लोकविरुद्धो यथा शुचि नरशिरःकपालं प्राण्यङ्गत्वाच्छङ्ख- 10 शुक्तिवदिति । स्ववचनविरुद्धो यथा माता मे वन्ध्या, पिता मे कुमारब्रह्मचारी । अप्रसिद्धविशेषणो यथा बौद्धस्य सांख्यं प्रति विनाशी शब्द इति। 15 अप्रसिद्धविशेष्यो यथा सांख्यस्य बौद्धं प्रति चेतन आत्मेति। 15 अप्रसिद्धोभयो यथा वैशेषिकस्य वौद्धं प्रति सुखादिसमवायिकारणमात्मेति । प्रसिद्धसंबन्धो यथा श्रावणः शब्द इति । एषां वचनानि धर्मस्वरूपनिराकरणमुखेन प्रतिपादनासंभवतः 20 साधनवैफल्यतश्चेति प्रतिज्ञादोषाः । उक्ताः पक्षाभासाः । 20 १ 'मिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः। P२, A ॥ २. 'न्यास: P२, A ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy