________________
२६
हरिभद्रसूरिविरचितटीकासहितं यथा भावाभावोऽभाव इति । यथेत्यौपम्ये । भावः सत्ता, तस्याभावो भावाभावः, असावीव उच्यते । न तु भावादन्योऽभावो नाम वस्तुस्वरूपोऽस्ति, एवं नित्यशब्देनात्रेत्यादि, दार्टान्तिकेऽपि भावितमेतत् । ___ उक्ता: पक्षादयः सह पक्षण विषयभूतेन हेतु-दृष्टान्ता इत्यर्थः ।
सू० [६], एषां वचनानि परप्रत्यायनकाले साधनम् । यथा- 5 अनित्यः शब्द इति पक्षवचनम् । कृतकत्वादिति पक्षधर्मवचनम् । यत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनम् । यन्नित्यं तदकृतकं दृष्टं यथाऽऽकाशमिति व्यतिरेकवचनम् । एतान्येव
'त्रयोऽवयवाः' इत्युच्यन्ते । 10 टी० [६], एषां वचनानि । एषामिति पक्षोपलक्षितानां हेतु-दृष्टान्तानाम्। 10
वचनानि ये वाचकाः शब्दाः । किं ते ? परप्रत्यायनकाले प्रानिकप्रत्यायनकाले साधनम् । प्रयोगतो दर्शयति- यथा अनित्यः शब्द इत्यादि निगदसिद्धं यावत् एतान्येव 'त्रयोऽवयवाः' इत्युच्यन्ते । एतान्येव पक्षहेतुदृष्टान्तानां वचनानि। त्रय इति संख्या, अवयवा इत्युच्यन्ते । पूर्वाचार्याणां संज्ञान्तरमेतत् । यथोक्तम्15 साधनमवयवाः [ ] ।
15 सू० [७], साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः, तद्यथा-प्रत्यक्षविरुद्धः १, अनुमानविरुद्धः २, आगमविरुद्धः ३, लोकविरुद्धः ४, स्ववचनविरुद्धः ५, अप्रसिद्धविशेषणः ६,
अप्रसिद्धविशेष्यः ७, अप्रसिद्धोभयः ८, प्रसिद्धसंबन्धश्चेति ९ । 20 टी० [७], उक्तं साधनम् । अधुना तदाभासा उच्यन्ते । तत्रापि 20
पक्षादिवचनानि साधनम् [ न्यायप्र०पृ०२] इति पक्षस्योपलक्षणत्वात् प्रथमं पक्ष उक्तः ।
१. भावः यथे J२॥ १. व इत्युच्यते J२ v विना ॥ ३. 'नापीत्यादि ७२, R ॥ ४. भावयितव्यमेव P३मू०, भावितमेव P३सं.v, R॥ ५. अवाच्येन टि०J२॥ ६. ते नास्ति P२, ३, A, VI॥ ७. शब्द इति पक्षवचनं
कृतकत्वादिति पक्षधर्मवचनं । यत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति सपक्षानुगमवचनं । यन्नित्यं तदकृतकं 25 दृष्टं यथाकाशमिति व्यतिरेकवचनम् इति निगदसिद्धं यावत् P२, A || ८. तदाभासमुच्यते P२, A, V. R || 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org