________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। साध्याभावे हेतोरभाव एव कथ्यते। तद्यथा- यन्नित्यं तदकृतकं दृष्टं यथाऽऽकाशमिति । नित्यशब्देनात्रानित्यत्वस्याभाव उच्यते । अकृतकशब्देनापि कृतकत्वस्याभावः। यथा भावाभावोऽभाव इति। उक्ताः पक्षादयः। 5 टी० [५], सांप्रतं दृष्टान्तमभिधित्सुराह- दृष्टान्त इत्यादि । तत्र दृष्टमर्थम् 5
अन्तं नयतीति दृष्टान्तः । प्रमाणोपलब्धमेव विप्रतिपत्तौ संवेदननिष्ठां नयतीत्यर्थः । स च द्विविधः। द्वे विधे यस्य स द्विविधः। तदेव द्वैविध्यं दर्शयति- साधर्म्यण वैधर्येण च । समानो धर्मो यस्यासौ सधर्मा, सधर्मणो भावः साधर्म्यम्, तेन । विसदृशो धर्मो यस्यासौ विधर्मा, विधर्मणो भावः वैधर्म्यम्, तेन । च: समुच्चये। 10 तत्र सौधर्येण तावदिति । अत्र तावच्छब्दः क्रमार्थः । यत्रेति अभिधेये। 10
हेतोरुक्तलक्षणस्य। सपक्ष एवास्तित्वं ख्याप्यते, सपक्ष उक्तलक्षणः, तस्मिन्नेवास्तित्वं विद्यमानत्वं ख्याप्यते प्रतिपाद्यते वचनेन । तच्चेदम्- यत् कृतकमित्यादि सुगमम् । अनेन साधर्म्यदृष्टान्ताभासव्युदासः। वैधघेणापि इत्यादि।
यत्रेत्यभिधेये । साध्यम् अनित्यत्वादि, तस्याऽभावे, हेतोः कृतकत्वादेः, किम्? 15 अभाव एव कथ्यते प्रतिपाद्यते वचनेन । उदाहरणं दर्शयति- यन्नित्यमित्यादि 15 सुगमम् । आह- न सौगतानां नित्यं नाम किंचिदस्ति। तदभावात् च कथं वैधर्म्यदृष्टान्त इति ? उच्यते, नित्यशब्देनेत्यादि । अत्रेति प्रयोगे दृष्टान्तवाक्ये वा, किम् ? नित्यशब्देन अनित्यत्वस्याभाव उच्यते, अनित्यो न भवतीति नित्यः ।
अकृतकशब्देनापि कृतकत्वस्याभावः, उच्यते इति वर्तते, कृतको न 20 भवतीत्यकृतकः । न तु वस्तुसन्नित्यमकृतकं चास्ति। अत्रैवोदाहरणमाह- 20
१. दृष्टान्तो द्विधा । तत्र P२, A ॥ २. द्विविधः कथं तदेव J२, P२, A ॥ ३. साधर्येण तावद् यत्र हेतोः सपक्ष एवास्तित्वं ख्याप्यते, तावच्छब्दः P२, A । साधर्म्यण तावदिति ताव V॥४. यत् कृतकं तदनित्यं यथा घटादिरिति सुगमम् P२, A ॥ ५. वैधये॒णापि यत्र साध्याभावे हेतोरभाव एव कथ्यते । यत्रेत्यभिधेये
P२, A ॥ ६ तच्चेदं उदा P२, A ॥ ७ यन्नित्यं तदकृतकं दृष्टं यथाकाशमिति । सुगमम् P२, A ॥ ८ च नास्ति 25 v॥ ९. नित्यशब्देनात्रानित्यत्वस्याभाव उच्यते । अत्रेति P२, A ॥ १०. नित्यशब्देन नास्ति P२, A1 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org