________________
२४
हरिभद्रसूरिविरचितटीकासहितं कृतकत्वमित्यादि। तत्रेति पूर्ववत् । कृतकत्वं प्रयत्नानन्तरीयकत्वं वा अनित्यादौ हेतुरिति योगः। तत्र क्रियते इति कृतकः। अपेक्षितपरव्यापारो हि भावः स्वभावनिष्पत्तौ कृतक इति । तद्भावः कृतकत्वम् । प्रयत्नानन्तरीयकत्वं वा इति, प्रयत्नश्चेतनावतो व्यापारः, तस्य अनन्तरं प्रयत्नानन्तरम्, तत्र भवो जात इति 5 वा प्रयत्नानन्तरीयः। स एव प्रयत्नानन्तरीयकः । तद्भावः प्रयत्नानन्तरीयक- 5 त्वम् । वा चशब्दार्थः। स च समुच्चये । द्वितीयहेत्वभिधानं विपक्षव्यावृत्तः सपक्षैकदेशवृत्तिरपि सम्यग्घेतुर्यथाऽयमेवेति प्रदर्शनार्थत्वाददुष्टमिति । अयं च हेतुः किम् ? पक्षधर्म एव, न तु पक्षस्यैव धर्मः। अयोगव्यवच्छेदमात्रफलत्वाद
वधारणस्य । यथा चैत्रो धनुर्धर एव । अनेन चासिद्धानां चतुर्णामसाधारणस्य च 10 व्यावृत्तिः । तथा सपक्ष एवास्ति अन्ययोगव्यवच्छेदः, यथा पार्थ एव धनुर्धरः। 10
अनेन तु साधारणादीनां नवानामपि हेत्वाभासानां व्यावृत्तिः । आह- यदि सपक्ष एवास्ति ततश्च तद्व्यतिरेकेणान्यत्र पक्षेऽप्यभावात् तद्धर्मत्वानुपपत्तिः । न अनवधृतावधारणत्वात्। आह- यद्येवं विपक्षे नास्ति एवेति तृतीयमवधारणं किमर्थम् ? । उच्यते । प्रयोगोपदर्शनार्थम् । उक्तं च- अन्वयव्यतिरेकयोरेकमपि 15 रूपमुक्तं कथं नु नाम द्वितीयस्याक्षेपकं स्यात् [ ] इति । प्रभूतमत्र 15
वक्तव्यम्, तत्तु नोच्यते, ग्रन्थविस्तरभयात् । गमनिकामात्रमेतत् । अनित्यादौ हेतुरित्यत्र आदिग्रहणात् दु:खादिपरिग्रहः । इत्युक्तो हेतुः ।
सू० [५], दृष्टान्तो द्विविधः- साधर्म्यण वैधर्येण च । तत्र साधhण तावत् यत्र हेतोः सपक्ष एवास्तित्वं ख्याप्यते । तद्यथा20 यत् कृतकं तदनित्यं दृष्टं यथा घटादिरिति । वैधर्येणापि यत्र 20
१. कृतकत्वं प्रयत्नानन्तरीयकत्वं वा । तत्रेति P२, A ॥ २. पदार्थ टि० २। दृश्यतां तुलनार्थं पृ०१०७ टि०१॥ ३. सहेतुको विनाश: निर्हेतुक उत्पादः टि०J२॥ ४ 'श्चेतना व्यापार: P२, A ॥ ५. वाशब्दः च° v, R॥ ६. प्रयत्नानन्तरीयकः टि०७२ ॥ ७. यदि पक्षस्यैव धर्मः स्यात् तदा सपक्षेऽपि अभाव:
प्राप्नोति टि०७२, P२ ।। ८. अनवधृतावधारणात् पक्षधर्मत्वस्यावधारित्वात् ।। अनवधारित एवार्थोऽवधार्यते, 25 अत्र तु पक्षमाश्रित्यावधारणं पूर्वमेव विहितम् टि०७२ ।। ९. रूपं दुःखं कृतकत्वात् सर्पवत् टि०J२॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org