________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। सपक्षे सत्त्वमित्यादि यदुक्तं तंत्र सपक्ष-विपक्षयोः स्वरूपमजानानो विनेयः पृच्छति- कः पुनः सपक्षः को वा विपक्ष इति? । अयं च प्रश्नो निगदसिद्ध एव। निर्वचनं त्विदं साध्यधर्मेत्यादि । अस्य गमनिका- इहोपचारवृत्त्या धर्मे साध्यत्वमधिकृत्योच्यते साध्यश्चासौ धर्मश्च साध्यधर्मः अनित्यत्वादिः । समानः 5 सदृशः, तस्य भावः सामान्यं तुल्यता । साध्यधर्मस्य साध्यधर्मेण वा संह सामान्यं 5 साध्यधर्मसामान्यम् । तेन समानोऽर्थः सपक्ष इति । तत्र समं तुल्यं मानं ज्ञानमस्येति समानः तुल्यज्ञानपरिच्छेद्य इति भावना । अर्थो घटादिः । न तु वचनमात्रम् । समान: पक्षः सपक्ष इति । अथवा उपचारवृत्त्या धर्मिणि
साध्यत्वमधिक्रियते । ततश्च साध्यस्य धर्मः साध्यधर्मः । शेषं पूर्ववत् । अनुपचरितं 10 तु साध्यं धर्मविशिष्टो धर्मीति भावार्थः । सांप्रतं सपक्षस्यैव उदाहरणमुपदर्शयन्नाह- 10 तद्यथा-अनित्ये शब्दे साध्ये घटादिरनित्य इत्यादि । तद्यथेत्युदाहरणोपन्यासार्थः । अनित्ये शब्दे साध्ये, किम्? घटादिरनित्यः पदार्थसंघातः . सपक्षः, साध्यानित्यत्वसमानत्वात् ।
अधुना विपक्षलक्षणप्रतिपादनायाह- विपक्षो यत्र इत्यादि। विसदृशः पक्षो 15 विपक्षः । स कीदृगिति स्वरूपतो दर्शयति- यत्र यस्मिन् ‘अर्थे' इति गम्यते । 15
साधनीयं साध्यम् । नास्ति न विद्यते । इह च साध्यप्रतिबद्धत्वात् साधनस्य तदपि नास्तीति गम्यते । उदाहरणं दर्शयति- यन्नित्यमित्यादि । तत्र यन्नित्यमिति किमुक्तं भवति? यदनित्यं न भवति, तदकृतकं दृष्टमिति तत् कृतकमपि न दृष्टं
यथाऽऽकाशमिति। तत्र हि साध्याभावात् साधनाभावः । 20 सांप्रतं विचित्रत्वादवधारणविधेः पक्षधर्मत्वादिषु तमुपदर्शनायाह- तंत्र 20
१. तत्र विपक्ष-सपक्षयोः P२, A । तत्र नास्ति J२ ॥ २. धर्मसामान्येन समानोऽर्थः सपक्षः, इहोप' P२, A ॥ ३. सह नास्ति P२, ३ A ॥ ४. तेन किं समानो P२, ३ A, R॥ ५. समानं तुल्यं मानमस्येति P२, A ॥ ६. इति नास्ति J२॥ ७. तु नास्ति P३मू० ॥ त्वत्र P२ A, R॥ ८. साध्ये इत्यादि P३,V, R. | साध्ये इत्यादिः
P२, A ॥ ९. यत्र साध्यं नास्ति । विसदृश: P२, A॥ १०. यथा य J२सं,v, R। यन्नित्यं तदकृतकं दृष्टं - यथाकाशमिति। तत्र P२, A॥ ११. यन्नित्यं तदकृतकं दृष्टमिति P२, A ॥ १२. तत्र नास्ति J२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org