________________
हरिभद्रसूरिविरचितटीकासहितं
सू० [४], हेतुस्त्रिरूपः । किं पुनस्त्रैरूप्यम् ? पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेव । कः पुनः सपक्षः, को वा विपक्ष इति ? । साध्यधर्मसामान्येन समानोऽर्थः सपक्षः । तद्यथाअनित्ये शब्दे साध्ये घटादिरनित्यः सपक्षः । विपक्षो यत्र साध्यं 5 नास्ति । तद्यथा - यन्नित्यं तदकृतकं दृष्टं यथाऽऽकाशमिति । तत्र कृतकत्वं प्रयत्नानन्तरीयकत्वं वा पक्षधर्म एव सपक्ष एवास्ति विपक्षे नास्त्येव । इत्यनित्यादौ हेतुः ।
टी० [४], सांप्रतं हेतुमभिधित्सुराह - हेतुस्त्रिरूपः । तत्र हिनोति गमयति जिज्ञासितधर्मविशिष्टानर्थानिति हेतुः । स च त्रिरूपः । त्रीणि रूपाणि यस्यासौ 10 त्रिरूपः त्रिस्वभाव इत्यर्थः । एकस्य वस्तुनो नानात्वमपश्यन् प्रच्छक आह- किं 10 पुनस्त्रैरूप्यम् ? किमिति परंप्रश्रे । पुनरिति वितर्के । त्रिरूपस्य भावस्त्रैरूप्यम् । एवं प्रच्छकेन पृष्टः सन्नाहाऽऽचार्य:- पंक्षधर्मत्वमित्यादि, अस्य गमनिकाउक्तलक्षणः पक्षः, तस्य धर्मः पक्षधर्मः, तद्भावः पक्षधर्मत्वम् । पक्षशब्देन चात्र केवलो धर्म्येवाऽभिधीयते, अवयवे समुदायोपचारात् । इदमेकं रूपम् । तथा सपक्षे 15 सत्त्वम् । सपक्षो वक्ष्यमाणलक्षणः । तस्मिन् सत्त्वमस्तित्वं सामान्येन भाव इत्यर्थः । इदं द्वितीयम्। तथा विपक्षे चासत्त्वमेवेति तृतीयम् । विपक्षो वक्ष्यमाणलक्षणः, तस्मिन् पुनरसत्त्वमेवाविद्यमानतैव । चशब्दः पुनः शब्दार्थः । स च विशेषणार्थ इति दर्शितमेवैतत् । आह— इहैवावधारणाभिधानं किमर्थम् ? उच्यते । अत्रैवैकान्तासत्त्वप्रतिपादनार्थम् । सपक्षे त्वेकदेशेऽपि सत्त्वमदुष्टमेवेति । तथा च सत्येकान्ततो 20 विपक्षव्यावृत्ताः सपक्षैकदेशव्यापिनोऽपि प्रयत्नानन्तरीयकत्वादयः सम्यग्घेतव 20 इवेत्यावेदितं भवति ।
15
२२
१. परिप्रश्ने P३,V॥ २. पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षे चासत्त्वमेव । उक्तलक्षणः P२, A॥ ३. ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते । व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् - टिoJ२ ॥ ४. द्वितीयं रूपम् P२, P३ A,V, R ॥ ५. मिति तृतीयं रूपम् V, R ॥ ६. विशेषार्थः ॥ ७ तमेव ॥ ८. च नास्ति 25 P२, A॥ ९. आदिशब्दादग्निरत्र धूमादित्यादयः प्रयत्नानन्तरीयकाः संगृहीता द्रष्टव्याः टिoJ२ ॥
Jain Education International
---
For Private & Personal Use Only
5
25
www.jainelibrary.org