________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम् ।
२१
वा साध्यः। तस्य भावः साध्यत्वम् । तेन साध्यत्वेन । ईप्सितः अभिमतः इष्ट इच्छया व्याप्त इत्यर्थः। इह चे लक्षणस्य व्यवच्छेदकत्वात् प्रसिद्धो धर्मीत्यनेनाऽप्रसिद्धविशेष्यस्य पक्षाभासस्य व्यवच्छेदो द्रष्टव्यः, प्रसिद्धविशेषणविशिष्टतयेत्यनेन त्वप्रसिद्धविशेषणैस्य, उभयेन चाप्रसिद्धोभयस्य, स्वयमित्यनेन चाभ्युपगमसिद्धान्तपरिग्रहेण सर्वतन्त्र-प्रतितन्त्रा-ऽधिकरणसिद्धान्तानां व्यवच्छेदो द्रष्टव्यः, शास्त्रनिरपेक्षस्य वादिनो लोकप्रसिद्धयोर्धर्मधर्मिणोः परिग्रहवचनमभ्युपगमसिद्धान्तः, तं स्वयमित्यनेनाह । ततश्च स्वयमिति वादिना यस्तदा साधनमाह । एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति [ न्यायबिन्दौ परि०३ ] इति यदुक्तं वादिमुख्येन तदपि संगतमेव । साध्यत्वेनेति साध्यत्वेनैव, न साधनत्वेनापि । अनेन च साध्य- - हेतु - दृष्टान्तानां पक्षत्वव्युदासः । ईप्सित इत्यनेने च नोक्तमार्त्रस्य, एतदुक्तं भवति - इच्छयाऽपि व्याप्तः पक्ष इति, एतच्च परार्थाश्चक्षुरादय इत्यत्र दर्शयिष्याम इति । अनेन धर्मविशिष्टो धर्मी पक्ष इत्यावेदितं भवति। ततश्च न धर्ममात्रम्, न धर्मी केवलः, न स्वतन्त्रमुभयम्, न च तयोः संबन्धः, किन्तु धर्मधर्मिणोर्विशेषणविशेष्यभाव इति भावार्थः ।
10
10
15
इह चोक्तलक्षणयोगे सत्यपि 'अश्रावणः शब्द:' इत्येवमदीनामपि प्रत्यक्षादिविरुद्धानां पक्षत्वप्राप्त्याऽतिव्याप्तिर्नाम लक्षणदोषः प्राप्नोतीत्यतस्तन्निवृत्त्यर्थमाहप्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः । प्रत्यक्षादिभिरविरुद्धः प्रत्यक्षाद्यविरुद्धः, आदिशब्दादनुक्तानुमानादिपरिग्रहः । इत्ययं वाक्यशेषो वाक्याध्याहारो द्रष्टव्य इति । उदाहरणोपदर्शनायाह— तद्यथा— अनित्यः शब्दो नित्यो वेति । तद्यथेत्युदाहरणोर्पदैर्शनार्थः । तत्र बौद्धादेरनित्यः शब्दो वैयाकरणादेर्नित्य इति । उक्त: सोदाहरणः पक्षः ।
5
20
Jain Education International
इह 5
For Private & Personal Use Only
15
१. च विशेषणस्य व्य P२, A ॥ २. समानासमानजातीयव्यवच्छेदकं लक्षणम् टि० J२ ॥ ३. 'स्य व्यवच्छेद उभयेन P२, A॥ ४. इह तु शास्त्रं J२, P३सं० V, R ॥ ५. नेकस्य धर्मस्याभ्यु P2, ३ ॥ ६ तदाऽनेन R ॥ ७ दृश्यतां पृ० ६८ टि०२ ॥ ८. 'हेतुदृष्टान्ताभासानाम् । तथा AI 'नेन नोक्त' P३ ॥ १०. 'स्यैवेत्येतदुक्तं P३सं० । 25 ॥ ११. मादीनां प्रत्यक्षा° २ A ॥ १२. प्राप्नोति
25 पञ्जिकासम्मतः पाठः ॥ ९. 'नेन न चोक्त' P२, 'स्यैवेत्यु P३मू० पाठः संभाव्यते 'स्येति एतदुक्तं अतस्त' J२,R ॥ १३. दर्शनार्थं ॥
20
www.jainelibrary.org