________________
२०
हरिभद्रसूरिविरचितटीकासहितं तत् किमर्थं षष्ठी? अत्रोच्यते । कारकाणामविवक्षा शेषः [ ] इति शेषलक्षणा षष्ठी । केषां प्रतिपाद्यते ? सामर्थ्यावेषामप्रतीतः, अन्येषामश्रुतत्वात्तेषामेव प्रतिपाद्यते । इतिशब्दस्तस्मादर्थे । यस्मादेवं तस्माद् व्यञ्जकमिदं साधनमप्रतीतार्थप्रतिपादकत्वात् प्रदीपवत्। व्यतिरेको बीजादिः ।।
सू० [३], तत्र पक्षः प्रसिद्धो धर्मी प्रसिद्धविशेषणविशिष्टतया 5 स्वयं साध्यत्वेनेप्सितः । प्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः। तद्यथाऽनित्यः शब्दो नित्यो वेति ।
टी० [३], तत्र पक्षादिवचनानि साधनम् इत्युक्तम् । अधुना यथोद्देशस्तथा निर्देश इति न्यायमाश्रित्य पक्षलक्षणप्रतिपादनायाह- तंत्र पक्ष इत्यादि । 10 अस्य गमनिका-तत्रशब्दो निर्धारणार्थः । निर्धारणं च प्रसिद्धधर्मित्वादि- 10
गुणतोऽवसेयमिति। पक्ष इति लक्ष्यनिर्देशः। प्रसिद्धो धर्मीत्यादि लक्षणम् । तत्र प्रसिद्धो वादि-प्रतिवादिनोः प्रतीतो धर्मीति, धर्माः कृतकत्वादयः, तेऽस्य विद्यन्ते इति धर्मी शब्दादिः । कथं प्रसिद्ध इत्यत आह- प्रसिद्धविशेषणविशिष्टतया।
तत्र प्रसिद्धं वादि-प्रतिवादिभ्या प्रमाणबलेनैव प्रतिपन्नम् । विशिष्यतेऽनेनेति विशेषणम्, 15 तेन विशिष्टः प्रसिद्धविशेषणविशिष्टः, तद्भावः प्रसिद्धविशेषणविशिष्टता, तया 15 प्रसिद्धविशेषणविशिष्टतया हेतुभूतया प्रसिद्धः ।
____ अत्राह- इह धर्मिणस्तावत् प्रसिद्धता युक्ता, विशेषणस्य त्वनित्यत्वादेर्न युज्यते, साध्यत्वात् । अन्यथा विवादाभावेन साधनप्रयोगानुपपत्तेः। नैतदेवम् ।
सम्यगर्थानवबोधात् । इह प्रसिद्धता विशेषणस्य न तस्मिन्नेव धर्मिण्याश्रीयते, किन्तु 20 धर्म्यन्तरे घटादौ । ततश्च यथोक्तदोषानुपपत्तिः। तथा स्वयमित्यनेनाभ्युपगम- 20 सिद्धान्तपरिग्रहः। साध्यत्वेनेप्सित इति, अत्र साधनीयः साधयितव्यः साधनमर्हतीति
१. षष्ठीति v । षष्ठी, उच्यते २३॥ २. 'रेके P३सं०, J२, P२, A|| ३. यथोद्देशं निर्देश: V॥ ४. तत्र पक्षः प्रसिद्धो धर्मी । अस्य P२, A ॥ ५. 'तया स्वयं साध्यत्वेनेप्सितः । तत्र P२, A ॥ ६. 'बलेन प्रति' P१,P३, A,V.R ॥ ७. तया हेतुभूतया J२,V.R || ८. धर्मिणि समाश्रीयते P२, A ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org