________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। साधयतीति साधनं तंदा पक्षांदिवचनान्येव कर्तृत्वेन विवक्ष्यन्ते प्रतिपाद्यसंताने ज्ञानोत्पादकत्वात् इति । तदेवं पक्षादिवचनानि साधनम्, यथा वृक्षा वनम्, हस्त्यादयः सेना ।
आह- एकवचननिर्देश: किमर्थम् ? उच्यते, समुदितानामेव पक्षादिवचनानां 5 साधनत्वख्यापनार्थम् । उक्तं च दिङ्नागाचार्येण- साधनमिति चैकवचननिर्देश: 5 समस्तसाधनत्वख्यापनार्थः [ ] इत्यलं विस्तरेण ।
एवं तावत् सामान्येन साधनमुक्तम् । इदं च न ज्ञायते किं कारकमुत व्यञ्जकम्? साधनस्य द्वैविध्यदर्शनात् । तत्र कारकं बीजादि अङ्कुरादेः । व्यञ्जकं
प्रदीपादि तमसि घटादीनाम् । अतो व्यञ्जकत्वप्रतिपादनायाह- पक्षहेतु-दृष्टान्त10 वचनैहि प्राधिकानामित्यादि । अस्य गमनिका - पच्यते इति पक्षः। हिनोतीति 10
हेतुः, हि गतौ [ पा-धा०१२५८]। सर्वे गत्यर्थाः ज्ञानार्थाः । तथा दृष्टमर्थमन्तं नयतीति दृष्टान्तः। स च द्विधा साधर्म्य-वैधर्म्यभेदात् । ततश्चैवं समासः- दृष्टान्तश्च दृष्टान्तश्च दृष्टान्तौ, हेतुश्च दृष्टान्तौ च हेतु-दृष्टान्ताः, पक्षस्य हेतु-दृष्टान्ताः पक्षहेतु-दृष्टान्ताः, तेषां
वचनानि पक्षहेतुदृष्टान्तवचनानि, तैः पक्षहेतुदृष्टान्तवचनैः । हिशब्दो यस्मादर्थे, प्रश्ने 15 नियुक्ताः प्राश्निका विद्वांसः, स्वसमय-परसमर्यवेदिन इति । उक्तं च- 15
स्वसमयपरसमयज्ञाः कुलजाः पक्षद्वयेप्सिताः क्षमिणः । वादपथेष्वभियुक्तास्तुलासमाः प्राधिकाः प्रोक्ताः ॥[ ]
तेषां प्राश्निकानामप्रतीतोऽनवगतोऽनवबुद्धोऽर्थः प्रतिपाद्यते । आह- ये यथोक्ताः प्राश्निकाः कथं तेषां कश्चिदप्रतीतोऽर्थ इति । उच्यते । न तत्परिज्ञानमङ्गी20 कृत्याप्रतीतः । किन्तु वादि-प्रतिवादिपक्षपरिग्रहसमर्थनासहस्तदन्तर्गत इत्यतोऽ- 20
प्रतीतोऽर्थः प्रतिपाद्यते । ननु चात्र चतुर्थ्या क्रियया चेतिवक्तव्यलक्षणया भवितव्यं
१. तदा नास्ति J२ ॥ २. वृक्षादि वनम् २ ॥ ३. किमर्थः ॥ ४. ज्ञापनार्थः J२, P३, R । 'ख्यापनार्थं P२, A ॥ ५. साधनं युक्तम् V॥ ६. पक्षहेतुदृष्टान्तेत्यादि P३,v, R ॥ ७. प्राश्निकानामप्रतीतोऽर्थः प्रतिपाद्यते इति । अस्य P२, A ॥ ८. 'वेदिनः पूर्वोक्ता एव, तेषां प्राश्रिका P२, A ॥ ९. तेषामप्रतीतो २ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org