________________
१८
हरिभद्रसूरिविरचितटीकासहितं साधनादिषु साधनं तावन्निर्धार्यते इति । निर्धारणं च जाति-गुण-क्रियानिमित्तमिति । अत्र गुणनिमित्तम्, साधनत्वेन गुणेन निर्धार्यते इति । गोमण्डलादिव गौः क्षीरसंपन्नत्वेन गुणेन । पच्यते इति पक्षः । पंच व्यक्तीकरणे [ पा०धा०१७४], पच्यते व्यक्तीक्रियते योऽर्थः स पक्षः साध्य इत्यर्थः । स च धर्मविशिष्टो धर्मी। पक्ष आदिर्येषां ते 5 पक्षादयः । अयं बहुव्रीहिः समासः । अयं च तद्गुणसंविज्ञानोऽतद्गुणसंविज्ञानश्च 5
भवति। तत्र तद्गुणसंविज्ञानो यथा लम्बकर्ण इत्यादि । लम्बौ कर्णौ यस्यासौ लम्बकर्णः इति । लम्बकर्णत्वं तस्यैव गुणः । अतद्गुणसंविज्ञानस्तु यथा पर्वतादिकं क्षेत्रमित्यादि । पर्वत आदिर्यस्य तत् पर्वतादिकं क्षेत्रम् । न पर्वतः क्षेत्रगुणः, किं
तर्हि ? उपलक्षणमिति । भावना-अयमिहातद्गुणसंविज्ञानो बहुव्रीहिर्वेदितव्यः, 10 यथा पर्वतादिकं क्षेत्रं नद्यादिकं वनमिति, न पुनर्यथा लम्बकर्णः, ब्राह्मणादयो वर्णा 10
इति । पक्षादिवचनानि सोधनमित्यत्र आदिशब्द उपलक्षणार्थः । अस्य चायमर्थःआदीयतेऽस्मादिति आदिः, यथा पर्वतादिकं क्षेत्रमित्यादौ । न पुनरादीयते इति आदिः, यथा ब्राह्मणादयो वर्णा इत्यादाविति । ततः सुस्थितमेतत्-पक्ष: आदिर्येषां ते
पक्षादयः। ते च पक्षोपलक्षिता हेतुदृष्टान्ताः । तेषां वचनान्युक्तयः । किम्? 15 साधनमिति । इह च यदा साध्यतेऽनेनेति साधनं करणार्थाभिधानः साधनशब्दस्तदा 15
पक्षोपलक्षितानि हेत्वादिवचनानि साधनम् । यतस्तैः करणभूतैर्विवक्षितोऽर्थः परसंताने प्रतिपाद्यते। यदा पुनर्भावसाधनः सिद्धिः साधनमिति तदा पक्षादिवचनजन्यं प्रतिपाद्यगतं ज्ञानमेव साधनम्, तत्फलत्वात् पेक्षादिवचनानाम् । पक्षादिवचनानि तु कार्ये कारणोपचारात्। यथेदं मम शरीरं पौराणं कर्मेति । यदा तु कर्तृसाधनः
20 १. इति नास्ति J२, P३,V.R. ॥ २. पच् P२, A। “पचि व्यक्तीकरणे" पा० धा० १७४ ॥ 20
३. योऽर्थः पक्षः साध्य इत्यर्थः ७२ ॥ ४. च नास्ति J२ R. ॥ ५. इति नास्ति v विना ॥ ६. गुण इत्यर्थः P२,३, AV, R. ॥ ७. तादि क्षेत्र २ ॥ ८. आदौ यस्य P२, ॥ ९. 'तादि क्षेत्रम् ७२ ॥ १०. लक्षणमात्रमिति V॥ ११. पर्वतादि क्षेत्र ७२ ॥ १२. साधनमत्रादि J२॥ १३. 'तादि क्षेत्र ७२॥ १४.
ततश्च स्थितमेतत् R । ततश्च स्थितमिदं P२, A || || १५. ज्ञानफलत्वात् टि० J२॥ १६. पक्षादिवचनानां 25 v विना नास्ति ॥ १७. 'नानि यदुक्तं साधनं तत् कार्ये V॥ १८. मे श P२, P३,A,VII
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org