________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम्। च कार्यकारणलक्षणः, कारणं च वचनरूपापन्न प्रकरणमेव । कार्यं तु प्रकरणार्थपरिज्ञानम् । तथाहि-इदमस्य कार्यमिति संबन्धलक्षणा षष्ठी ।
आह-यद्येवं परसंवित्त्यात्मसंवित्त्योः प्रकरणार्थपरिज्ञानेन व्यवहितत्वादप्रयोजनत्वमिति। न। व्यवहितस्यैव विवक्षितत्वात् । आंह- किमर्थं व्यवहित5 मेव विवक्षितमिति । उच्यते । उत्तरोत्तरप्रयोजनानां प्राधान्यख्यापनार्थम्। तथा 5 चेहानुत्तरप्रयोजनं परमगतिप्राप्तिरेव । तथा चोक्तम्
सम्यग्न्यायपरिज्ञानाद्धेयोपादेयवेदिनः । उपादेयमुपादाय गच्छन्ति परमां गतिम् ॥ [ . ]
आह– यद्येवमिहानुत्तरप्रयोजनमेवेदं कस्मान्नोक्तमिति?। उच्यते । अव्युत्पन्नं 10 विनेयगणमधिकृत्य, तत्प्रथमतयैव तस्याप्रयोजकत्वात् । अपरस्त्वाह- इदमिह 10
श्रोतृणां प्रयोजनमुक्तम्, कर्तुस्तर्हि किं प्रयोजनमिति वाच्यम् । उच्यते, तस्याप्यनन्तरपरंपरभेदर्भिन्नमिदमेव । अनन्तरं तावत् सत्त्वानुग्रहः । परंपरं तु परमगतिप्राप्तिरेव। तथा चोक्तम्
साधुन्यायोपदेशेन यः सत्त्वानामनुग्रहम् । ___ करोति न्यायबाह्यानां स प्राप्नोत्यचिराच्छिवम् ॥ [ ]
अलं विस्तरेण ।
इति शास्त्रार्थसंग्रहः । इतिशब्दः परिसमाप्तिवाचकः, एतावानेव। शिष्यतेऽनेन तत्त्वमिति शास्त्रमधिकृतमेव । अर्यत इत्यर्थः । शास्त्रस्यार्थः शास्त्रार्थः । तस्य
संग्रहः शास्त्रार्थसंग्रहः, संग्रहणं संग्रहः । एतावानेवाधिकृतशास्त्रार्थसंक्षेप इत्यर्थः। 20 शास्त्रता चास्याल्पग्रन्थस्यापि विश्वव्यापकन्यायानुशासनादिति वृद्धवादः। 20
सू० [२], तत्र पक्षादिवचनानि साधनम् । पक्षहेतुदृष्टान्तवचनैर्हि प्राश्रिकानामप्रतीतोऽर्थः प्रतिपाद्यत इति ।
टी० [२], तत्र यथोद्देशस्तथा निर्देश इति कृत्वा साधनस्वरूपनिरूपणायाहतत्र पक्षादिवचनानि साधनम् । तत्रशब्दो निर्धारणार्थः । ता तेष
15
15
25
१. च नास्ति रमू०, P३ ॥ २. बहुप्रकरणात्मकत्वाच्छास्त्रस्य शास्त्रमपि प्रकरणशब्देनोच्यते 25 टि०७२॥ ३. आह नास्ति P२, A ॥ ४ 'नोपन्यस्तमिति P२, AV || ५. प्रयोजनस्य टिOJ२॥ ६. 'भिन्नमेव। अन J२॥ ७. सम्यगन्यायो V॥ ८. 'शब्दः समाप्तिवाचक: J२,V.R. || ९. अर्थ्यत P२, A || १०. 'ग्रहः ग्रहणं। एता V॥ ११. “पावधारणायाह P२, A,VI| १२. तत्र नास्ति J२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org