________________
हरिभद्रसूरिविरचितटीकासहितं प्रत्यक्षम् इत्यत्र अक्षमिन्द्रियम्, ततश्च प्रतिगतमक्षं प्रत्यक्षं कार्यत्वेनेन्द्रियं प्रति गतमित्यर्थः । इदं च वक्ष्यति प्रत्यक्षं कल्पनापोढम् [ न्यायप्र० पृ०१०] इत्यादि। तथा मीयते अनेनेति मानं परिच्छिद्यत इत्यर्थः । अनुशब्द: पश्चादर्थे ।
पश्चान्मानम् अनुमानम्। पक्षधर्मग्रहण-संबन्धस्मरणपूर्वकमित्यर्थः । वक्ष्यति च 5 त्रिरूपाल्लिङ्गाल्लिङ्गिनि ज्ञानमनुमानम् [ ] । चशब्दः पूर्ववत्, साभासशब्दश्च। 5 ।
वक्ष्यति च कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् [ न्यायप्र०पृ०८ ] इत्यादि । तथा हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम् [ न्यायप्र०पृ०१०] इत्यादि च। तुशब्दस्त्वेवकारार्थः, स चावधारण इति दर्शयिष्यामः । आत्मसंविदे इत्यत्र
अततीत्यात्मा जीवः । संवेदनं संवित्। आत्मनः संवित् आत्मसंवित् । तस्यै 10 आत्मसंविदे आत्मावबोधाय । आत्मा चेह चित्त-चैत्तंसंतानरूपः परिगृह्यते, न तु 10 परपरिकल्पितो नित्यत्वादिधर्मा, तत्प्रतिपादकप्रमाणाभावात् । इति पदार्थः ।
___ वाक्यार्थस्त्वयम् । प्रत्यक्षा-ऽनुमाने एव साभासे आत्मसंविदे आत्मावबोधाय, न साधन-दूषणे, आत्मसंवित्फलत्वात् तयोः । आह– ननु साधनमपि वस्तुतो
ऽनुमानमेव, ततश्चानुमानमित्युक्ते साधनाभिधानं न युज्यते, अस्मिन् वा प्रागुक्ते 15 अनुमानाभिधानमिति । नैष दोषः, स्वार्थ-परार्थभेदे सति भेदेनाभिधानात्। तत्र साधनं 15 परार्थम्, अनुमानं पुनरिदं स्वार्थम् ।
अपरस्त्वाह- आदौ साधन-दूषणाभिधानमयुक्तं प्रत्यक्षा-ऽनुमानपुर:सरत्वात् तत्प्रयोगस्य । उच्यते । सत्यपि तत्पुर:सरत्वे शास्त्रारम्भस्य परसंवित्प्रधानत्वात्
साधन-दूषणयोरपि तत्फलत्वात् प्रत्यासत्तेरादावुपन्यासः । परार्थनिबन्धनः स्वार्थ 20 इति न्यायप्रदर्शनार्थमन्ये ।
20 कृतं प्रसङ्गेन । प्रकृतं प्रस्तुमः । इह साधनादयोऽष्टौ पदार्थाः अभिधेयतया उक्ताः, परसंवित्त्यात्मसंवित्ती च प्रयोजनत्वेन । संबन्धस्तु सामर्थ्यगम्य एव । स
१. ढमभ्रान्तम् । तथा VI। २. धूमादेः अग्निमत्पर्वतनितम्बे टि०J२ ॥ ३. सामान्यलक्षणे टि० J२ ॥ ४. 'आत्मसंविदे इत्यत्र' J२सं., P३सं., R. मध्य एव वर्तते ॥ ५. चित्तं सामान्यज्ञानं गच्छत्तृणस्पर्शादि, 25 चैत्तास्तद्विशेषाः सुख-ज्ञानादय: टि०J२॥ ६. ज्ञानवेदनेन नैरन्तर्यावस्थितिरूपसन्तानात्मकः टि०P२॥ ७. 25
प्रत्यक्षानुमानयोः टि००२ ।। ८. मित्याद्युक्ते P२, A ॥ ९. इह च साध° J२ विना ॥ १०. संबन्धश्च साम° v विना॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org