SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम् । १५ तत्रापि पदसमुदायात्मकत्वाद् वाक्यस्याऽऽदौ पदार्थगमनिका न्याय्या । साऽपि पदविभागपूर्विकेत्यतः पदविभागः 'साधनम् दूषणम् च एव साभासम् परसंविदे प्रत्यक्षम् अनुमानम् च साभासम् तु आत्मसंविदे' इति पदानि । 5 अधुना पदार्थ उच्यते । साध्यते अनेन सिद्धिर्वा साधयतीति वा साधनम्। तैच्च पक्षादिवचनजातम् । वक्ष्यति च - पक्षादिवचनानि साधनम् [ न्यायप्र० पृ०२ ]। 5 विषयश्चास्य धर्मविशिष्टो धर्मी । तथा दूष्यतेऽनेन दुष्टिर्वा दूषयतीति वा दूषणम्। तच्च साधनदोषोद्भावनं वचनजातमेव । वक्ष्यति च - साधनदोषोद्भावनानि दूषणानि [ न्यायप्र० पृ०१० ]। विषयश्चास्य साधनाभसम्, न सम्यक् साधनम्, तस्य दूषयितुमशक्यत्वात् । आह- ननु वक्ष्यति साधनदोषोद्भावनानि दूषणानि [ न्यायप्र० 10 पृ०१०] इति, तदेतत् कथम् ? उच्यते, साधनाभौसे एव किंचित्साम्येन 10 साधनोपचाराददोषः इति एतच्च तत्रैव निर्लोठयिष्यामः । चः समुच्चये । एवकारोऽवधारणे। स चान्ययोगव्यवच्छेदार्थ इत्येतद्दर्शयिष्यामः 1 तथा आभासनमाभासः । सह आभासेन वर्तते इति साभासम् । साभासशब्दः प्रत्येकमभिसंबध्यते । साधनं साभासं दूषणं च साभासम् । तत्र साधनाभासं पक्षाभासादि । 15 वक्ष्यति च-साधयितुमिष्टोऽपि प्रत्यक्षादिविरुद्धः पक्षाभासः [ न्यायप्र० पृ०३ ] 15 इत्यादि । दूषणाभासं चाभूतसाधनदोषोद्भावनानि दूषणाभासानि । वक्ष्यति च - अभूतसाधनदोषोद्भावनानि दूषणाभासानं [ न्यायप्र० पृ०११ ] इत्यादि । परसंविदे इत्यत्र परे प्राश्निकाः,संवेदनं संविद् अवबोध इत्यर्थः, परेषां संवित् परसंवित्, तस्यै परसंविदे परावबोधाय । इयं तादर्थ्ये चतुर्थी, यथा यूपाय दारु । इति पदार्थः ॥ वाक्यार्थस्त्वयम् — साधन- दूषणे एव साभासे परसंविदे परावबोधाय, न 20 प्रत्यक्षा-ऽनुमाने, परसंवित्फलत्वात् तयोः । यथा पार्थ एव धनुर्धरः, पार्थे धनुर्धारयति ति कोऽन्यो धनुर्धर इति । 20 १. सा च पद V॥ २. अनेनेति सिद्धिर्वा J२,VR. ॥ ३. तच्चेह प P२, AC | ४ भासः ॥ ५. भासे एव साधनं किंचि P3 ॥ ६. चशब्दः स J२ विना ॥ ७. 'रणार्थ: PRA, C ॥ ८. दूषणाभासानि 25 नास्ति J2 विना । दूषणाभासानि परसंवित् इत्यत्र परे प्रानिकाः । उक्तं च स्वसमयपरसमयज्ञाः । कुलजा: 25 पक्षद्वयेप्सिताः क्षमिणः । वादपथेष्वभियुक्ताः तुलासमाः प्राश्निकाः प्रोक्ताः । संवेदनं संविद् P२,A,C॥ ९. नीति पर V ॥ १०. साधनदूषणयोः टि० J२, २ ॥ ११. सति नास्ति J२, P२,V.R. I Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy