________________
१४
हरिभद्रसूरिविरचितटीकासहितं तंत्र च साधनं दूषणं चेत्यादिरादावेव श्लोकः । आह-अस्य किमर्थमादावुपन्यास इति । उच्यते । इह प्रेक्षापूर्वकारिणः प्रयोजनोंदिशून्ये न क्वचित् प्रवर्तन्त इत्यतोऽधिकृतशास्त्रस्य प्रयोजनादिप्रदर्शनेन प्रेक्षावतां प्रवृत्त्यर्थमिति, शास्त्रार्थकथनकालोपस्थितपरसंभाव्यमानानुपन्यासहेतुनिराकरणार्थं च । तथा च 'न्यायप्रवेशकाख्यं शास्त्रमारभ्यते' इत्युक्ते संभवत्येवंवादी पर:- नारब्धव्यमिदं प्रयोजनरहितत्वात् 5 उन्मत्तकवाक्यवत्। तथा निरभिधेयत्वात् काकदन्तपरीक्षावत् । तथा असंबद्धत्वात् 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः' [ पा०म०भा० १/१/३] इत्यादिवाक्यवत् । तदमीषां हेतूनामसिद्धतोद्विभावयिषया प्रयोजनादिप्रतिपादनार्थमादौ
श्लोकोपन्यासः । अयं चाभिधेय-प्रयोजने एव दर्शयति साक्षात्, संबन्धं तु सामर्थ्येन । 10 यथा चैतदेवं तथा सुखप्रतिपत्त्यर्थमेनमेव लेशतो व्याख्याय दर्शयिष्यामः । 10
व्याख्या च पद-वाक्यसंगतेति । उक्तं चशास्त्र-प्रकरणादीनां यथार्थावगमः कुतः । व्याख्यां विहाय, तत्त्वज्ञैः सा चोक्ता पद-वाक्ययोः ॥ [ ] इत्यादि।
C = चाणस्माग्रामे जैनग्रन्थभाण्डागारे विद्यमान आदर्शः, पत्रसंख्या १-१३ । ग्रन्थाङ्क: २१७ | R = अस्य स्वरूपं . पृ०२ टि० मध्ये द्रष्टव्यम् । R आदर्श एतन्मुद्रणानन्तरं लब्ध इति तत्र विद्यमानाः पाठभेदाः पृ०५६ मध्ये द्रष्टव्याः । यत्र की यत्र R मध्ये विशिष्टः पाठभेदः तत्र तत्र एतादृशं चिह्नमस्माभिः कृतमस्ति ।
C मध्ये प्रायः सर्वत्र P२-A सदृशः पाठोऽस्तीति ध्येयम् ।
V= वडोदरामध्ये विद्यमानस्य न्यायप्रवेशकटीकाग्रन्थस्य स्वरूपं प्राक् पृ०२ मध्ये वर्णितं तत एवावसेयम् । अस्य प्रान्ते "समाप्ता न्यायप्रवेशकटीका, ग्रंथाग्रं ५९५। कृतिरियं हरिभद्रसूरेः" इति उल्लेखः ॥
इदं तु विशेषतोऽवधेयम् - न्यायप्रवेशकटीकाया द्विविधा पाठपरम्परा दृश्यते- एका J२,P३ इति तालपत्रलिखितादर्शयोः, अपरा तु P२, A, C इति कागजपत्रलिखितादर्शेषु । अतो नायं केवलं पाठभेदप्रकार:, किन्तु पाठपरम्परैव द्विविधा । J२,P३ मध्ये या पाठपरंपरा वर्तते तत्र केवलं टीकैव वर्तते । या तु P२,A,C मध्ये पाठपरम्परा तत्र मध्ये मध्ये सूत्रपाठोऽपि वर्तते, अपरोऽपि न्यूनोऽधिको वा पाठभेदो वर्तते । अयं च पाठपरम्पराभेदः टिप्पनेषु तत्र तत्रास्माभिर्दर्शितः । P२,A,C मध्ये
टीकायां निर्दिष्ट: सर्वः सूत्रपाठ इटालीक्ष Italics अक्षरैरत्र टिप्पनेषु सर्वत्र सूचित इति अवसेयम्। J२,P२,P३, C इत्यादर्शेषु के यानि टिप्पनानि लिखितानि सन्ति तानि टि०J२ इत्यादिना संकेतेन अत्रैव टिप्पनेषु समावेशितानि ।
00
26
25
१ तत्र च V मध्ये नास्ति । तत्र च साधनं दूषणं चैव साभासं परसंविदे। प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे॥ इति आदावेव श्लोकः P२, A, C, V । २ दिविरहेण न J२ C, V विना ॥ ३. अनेकार्थप्रतिपादकं शास्त्रम्। एकार्थप्रतिपादकं प्रकरणम् -टि०J२,A ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org