SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ बौद्धाचार्यदिङ्नागप्रणीतं न्यायप्रवेशकशास्त्रम्। सूत्रम् [१] साधनं दूषणं चैव साभासं परसंविदे । प्रत्यक्षमनुमानं च साभासं त्वात्मसंविदे ॥ -इति शास्त्रार्थसंग्रहः ॥ 5 याकिनीमहत्तराधर्मसूनुना आचार्यश्री हरिभद्रसूरिणा विरचिता न्यायप्रवेशकटीका श्री सर्वज्ञाय नमः । टीका [१] सम्यन्यायस्य वक्तारं प्रणिपत्य जिनेश्वरम् । न्यायप्रवेशकव्याख्यां स्फुटार्थां रचयाम्यहम् ॥ १॥ रचितामपि सत्प्रज्ञैर्विस्तरेण समासतः । असत्प्रज्ञोऽपि संक्षिप्तरुचिसत्त्वानुकम्पया ॥२॥ 10 जन्यायप्रवेशके ये ये पाठभेदाः तेऽत्र न निर्दिष्टाः । किन्तु पृ०१-११ मध्ये दर्शिताः तत्रैव विलोकनीयाः । * अत्रेदमादाववधेयम्-न्यायप्रवेशकस्य हरिभद्रसूरिविरचितायाः टीकायाः संशोधने JP P३ इति तालपत्रलिखितमादर्शद्वयं 15 P२, A, C, V, R इति कागजपत्रलिखितं च आदर्शपञ्चकमस्माभिरुपयुक्तम् । तत्र J२ P३ इत्येतयोः स्वरूपं प्रागेव 15 न्यायप्रवेशकस्य प्रारम्भे वर्णितम् । ___ J२ मध्ये पत्राणि ४२-B - १३४ B, "कृतिः श्वेताम्बरश्रीहरिभद्राचार्यकृतन्यायप्रवेशटीका समाप्तेति ॥ छ । छ॥ ग्रंथ ५९० ॥संवत् १२०१ वर्षे ॥ माघमासीयचरमशकले तुरीयतिथौ तिमिरासहनवासरे श्री भृगुकच्छस्थितिमता पंडितेन यशसा सहितेन धवलेन पुस्तिकेयमलेखि ॥" इति प्रान्ते उल्लेखः ॥ 20 P२ मध्ये पाटणनगरे श्री हेमचन्द्राचार्यजैनज्ञानमंदिरे विद्यमान आदर्शः, पत्राणि १-२० । डा० ३७२, ग्रन्थाङ्कः १७८०७। 20 "समाप्ता चेयं शिष्यहिता नाम न्यायप्रवेशकटीका । कृतिः सिताम्बराचार्यजिनभट्टपादसेवकस्याचार्य श्री हरिभद्रस्य ॥छ ॥ छ ॥ छ ॥......इति संपूर्ण। संवत् १९३३ ना वर्षे वैशाखसुदि द्वादशी । शुक्रः" इति प्रान्ते लिखितमस्ति । ___ P३ मध्ये पत्राणि १-२३ "समाप्ता न्यायप्रवेशकटीका ॥ छ ॥ कृतिराचार्यहरिभद्रस्य ॥ छ । ग्रन्थप्रमाण मनुष्टपच्छन्दसां श्लोकशतानि पञ्च। अङ्कतोऽपि ५०० ॥ मंगलं महाश्रीः । शुभं भवतु लेखक-पाठकानामिति ॥" 25 इति प्रान्ते उल्लेखः ॥ 25 ___A = जैन आत्मानन्दसभा-भावनगर-सत्क आदर्शः, ग्रन्थाङ्कः ८८५, पत्राणि १-१५ । "समाप्ता चेयं शिष्यहिता नाम न्यायप्रवेशकटीका। कृतिः सितम्बराचार्यजिनभट्टपादसेवकस्याचार्यश्री हरिभद्रस्य । ....इति समाप्तोऽयं न्यायप्रवेशाख्यो ग्रन्थः ॥ संवत् १९६३ वर्षे आषाढमासे शुक्लपक्षे १३ त्रयोदशी चन्द्रवासरे ॥ श्री धोलेरा बंदरे ॥ लि. शेठ दुर्लभजी सुंदरजी ॥ शुभं भवतु ॥ कल्याणमस्तु । श्रीरस्तु ॥ छ । श्री ॥ ग्रं०६५०" इति प्रान्ते उल्लेखः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy