________________
१०
बौद्धाचार्यश्री दिङ्नागविरचितं सू० [१९], एषां पक्षहेतुदृष्टान्ताभासानां वचनानि न साधनम्, साधनाभासाः ।
सू० [२०], आत्मप्रत्यायनार्थं तु प्रत्यक्षमनुमानं च द्वे एव प्रमाणे प्रतिपादनीये।
सू० [२१], तत्र प्रत्यक्षं कल्पनापौढम्, यज्ज्ञानमर्थे रूपादौ नाम-जात्यादिकल्पनारहितं तदक्षमक्षं प्रति वर्तत इति प्रत्यक्षम् ।
सू० [२२], अनुमानं लिङ्गादर्थदर्शनम् । लिङ्गं पुनस्त्रिरूपमुक्तम् । तस्माद्यदनुमेयेऽर्थे ज्ञानमुत्पद्यते 'अग्निरत्र, अनित्यः
शब्दः' इति वा तदनुमानम् । उभयत्र तदेव ज्ञानं फलमधिगम10 रूपत्वात्। सव्यापारवत्ख्यातेः प्रमाणत्वमिति ।
__ सू० [२३], कल्पनाज्ञानमर्थान्तरे प्रत्यक्षाभासम् । यज्ज्ञानं घटः पट इति वा विकल्पयतः समुत्पद्यते तदर्थस्वलक्षणाविषयत्वात् प्रत्यक्षाभासम् ।
सू० [२४], हेत्वाभासपूर्वकं ज्ञानमनुमानाभासम् । हेत्वाभासो हि बहुप्रकार उक्तः । तस्माद्यदनुमेयेऽर्थे ज्ञानमव्युत्पन्नस्य भवति तदनुमानाभासम् ।
सू० [२५], साधनदोषोद्भावनानि दूषणानि । साधनदोषो न्यूनत्वम् । पक्षदोषः प्रत्यक्षादिविरुद्धत्वम् । हेतुदोषोऽसिद्धा-ऽनैका
१. वचनानि साधनाभासा: (भासं P2, V) K, K1, J2मू०, P1, 2, 3, v, R। वचनाति न साधनमिति D। वचनानि न साधनं J11 वचनानि न साधनं साधनाभासा: J2सं० । २. आत्मप्रत्यायनार्थं पुनः प्रत्यक्षमनुमानं च द्वे एव प्रमाणे प्रतिपादनीये तत्र प्रत्यक्षं कल्पनापोढमभ्रान्तं यज्ज्ञानमर्थे P2॥ ३. प्रतिपादनीये नास्ति D, V, K, K1, P1, 3, R॥ ४. ढमभ्रान्तं Dसं०,P2॥ ५. प्रत्यक्षं नास्ति J1 ॥६. मेये ज्ञान D, P2 विना ॥ दृश्यतां पृ०५२ टि०१, पृ०६१ पं०१२ ७. अनित्य इति वा J2, Dमू० ॥८. परिच्छेदरूपत्वात् J2 टि.॥ ९. °भासं घटः पट इति वा विकल्पयतो यदत्पद्यते P3, K॥ १०. उत्पद्यते D॥ ११. मेये ज्ञान P2, D विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org