________________
न्यायप्रवेशकशास्त्रम् । सू० [१७] 'वैधर्येणापि दृष्टान्ताभासः पञ्चप्रकारः, तद्यथा-साध्याव्यावृत्तः १, साधनाव्यावृत्तः २, उभयाव्यावृत्तः ३,अव्यतिरेकः ४, विपरीतव्यतिरेकश्चेति ५ ।।
सू० [१८], तत्र साध्याव्यावृत्तो यथा - नित्यः शब्दोऽमूर्तत्वात् परमाणुवत् । परमाणोर्हि साध्यं नित्यत्वं न 5 व्यावृत्तम्, नित्यत्वात् परमानाम् । साधनधर्मोऽमूर्तत्वं नास्ति, मूर्त्तत्वात् परमाणूनाम् ।
साधनाव्योवृत्तः कर्मवदिति । तत्र कर्मण: साध्यं नित्यत्वं व्यावृत्तम्, अनित्यत्वात् कर्मणः। साधनधर्मोऽमूर्तत्वं न व्यावृत्तम्, अमूर्तत्वात् कर्मणः ।
उभयाव्यावृत्तः आकाशवदिति तत्सत्त्ववादिनं प्रति । ततो *हि नित्यत्वममूर्तत्वं च न व्यावृत्तम्, नित्यत्वादमूर्तत्वाच्चाकाशंस्य।
अव्यतिरेको यंत्र विना साध्यसाधननिवृत्त्या तद्विपक्षभावो निदर्श्यते । यथा घटे अनित्यत्वं मूर्तत्वं च दृष्टमिति ।
विपरीतव्यतिरेको यथा-यदनित्यं तद् मूर्तं दृष्टमिति वक्तव्ये यद् मूर्तं तदनित्यं दृष्टमिति ब्रवीति ।
___10
20
१. वैधर्मेणापि पंचधा तद्यथा साध्याव्यावृत्त: P2 । वैधयेणापि साध्याव्यावृत्तः J2 ॥२. वत्। यन्नित्यं तदमूर्तं दृष्टं यथा परमाणुः । परमाणोर्हि R। वत्। यदनित्यं तन्मूर्तं दृष्टं यथा परमाणुः। परमाणोर्हि P2, D ॥३. परमाणोर्हि साधनधर्मोऽमूर्तत्वं व्यावृत्तं[मूर्तत्वात् परमाणूनामिति P1,K1विना] साध्यधर्मोनित्यत्वं नव्यावृत्तं नित्यत्वात् परमाणूनामिति । साधना P1,2, 3, J2 सं., V, K1 ।। परमाणौ हि साधनधर्मोऽमूर्तत्वं व्यावृत्तं साध्यधर्मो नित्यत्वं न व्यावृत्तं नित्यत्वात् परमाणूनामिति ।साधना' K, D॥ ४. नित्यत्वमव्यावृत्तं .....ऽमूर्तत्वं व्यावृत्तं, मूर्तत्वात् R ॥ ५. वृत्तो यथा कर्म° P2, D॥ ६. कर्मवदिति । तत्र साध्यं J1, 2 ॥ कर्मवत् कर्मणः साध्यं P3, K, D मू०।। ७. हि नास्ति P2,V॥८. स्येति P2, 3, K, D, V, R.॥९. यथा विना R. ॥ १०. "रेको यदनित्यं तन्मूर्तमिति P1, J1, K1 ॥ ११. यथा नास्ति D ॥ १२. तदनित्यमित्याह (तदनित्यं दृष्टमिति J2सं०।) अयं वैधर्म्यदृष्टान्ताभासवर्ग: P1, K1, J2 मू० । तदनित्यं दृष्टमिति ब्रवीति। एषां P2, D। तदनित्यमित्याह एषां J1। तदनित्यमिति [ ब्रवीति V] एषां P3, K, V॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org