________________
न्यायप्रवेशकशास्त्रम् । सू० [१२], विरुद्धश्चतुःप्रकार:-तद्यथा धर्मस्वरूपविपरीतसाधनः १, धर्मविशेषविपरीतसाधन: २, धर्मिस्वरूपविपरीतसाधन: ३, धर्मिविशेषविपरीतसाधनश्चेति ४ ।
सू० [१३], तत्र धर्मस्वरूपविपरीतसाधनो यथा- नित्यः शब्दः कृतकत्वात् प्रयत्नानन्तरीयकत्वाद्वेति । अयं हेतुर्विपक्ष एव 5 अस्त्यतो नित्यत्वलक्षणस्य साध्यधर्मस्य स्वरूपविपरीतमनित्यत्वं साधयति इति धर्मस्वरूपविपरीतसाधनाद् विरुद्धः ।।
धर्मविशेषविपरीतसाधनो यथा- परार्थाश्चक्षुरादयः संघातत्वाच्छयनासनाद्यङ्गवदिति । अयं हेतुर्यथा पारार्थ्यं चक्षुरादीनां साधयति तथा संहतत्वमपि परस्य साध्यधर्मविशेषविपरीतं साधयति, उभयत्रा- 10 व्यभिचारात् ।
धर्मिस्वरूपविपरीतसाधनो यथा- न द्रव्यम् नै कर्म न गुणो भव इति, एकद्रव्यवत्त्वात् गुणकर्मसु च भावात्, सामान्यविशेषवदिति । अयं हि हेतुर्यथा द्रव्यादिप्रतिषेधं भावस्य साधयति तथा भावस्याभावत्वमपि साधयति, उभयत्राव्यभिचारीत् । 15
- धर्मिविशेषविपरीतसाधनो यथा- अयमेव हेतुरस्मिन्नेव पूर्वपक्षेऽस्यैव धर्मिणो यो विशेषः सत्प्रत्यर्यकर्तृत्वं तद्विपरीतमसत्प्रत्ययकर्तृत्वमपि द्रव्यादिप्रतिषेधवत् साधयति, उभयत्राव्यभिचारात् ।
१. एव भावाद् विरुद्धः अतो नित्यत्व P1, R.। एव भावाद् विरुद्धः P2, 3, K ॥२. अस्त्यतो नित्यत्वलक्षणस्य साध्यधर्मस्य स्वरूपविपरीतमनित्यत्वं साधयति इति धर्मस्वरूपविपरीतसाधनाद् P2, 3, 20 K मध्ये नास्ति ॥ ३. लक्षणसाध्य° J1, P1 || ४. अयं हि हेतु P1, 3, K, D, R. ।। ५. परस्यात्मनः साधयति P2, D ||६. न गुणो न कर्म भाव एक D॥ ७. इति K, D, V. मध्ये नास्ति॥ ८. हि K, D, V, मध्ये नास्ति ॥ ९. भावस्य J2, P2, D, V, K मध्ये नास्ति॥ १०. तथा अभावत्वमपि भावस्य साधयति J1,2, P2, K1॥ ११. “रादिति D, V, ॥१२. कर्तृत्वं नाम तद्वि"D, V ॥१३. द्रव्यादिप्रतिषेधवत् P1, 3, D, V, K मध्ये नास्ति ॥१४. 'रादिति D, V॥ ०रादिति । हेत्वाभासा: समाप्ताः । R॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org