SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ xxiii प्रास्ताविकं किञ्चित् न्यायप्रवेशकवृत्तिपञ्जिकायाः पाटणनगरे खेतरवसीपाडामध्ये विद्यमानस्तालपत्रोपरिलिखित आदर्शोऽधुना तत्र नास्ति, किन्तु तस्य Photostat Copy वडोदरा नगरे University मध्ये Library of the Oriental Institute, BARODA इत्यत्र विद्यते, किन्तु तेषु १, ४, ६२, ६३, ६४, ६७, ७०, ९० एतानि पत्राणि न सन्ति, अस्यैव चोपयोगः आनन्दशंकर बापुभाई ध्रुवमहोदयैः कृतः, अस्य Photostat Copy प्रतिबिम्बस्य उपलब्धिः कच्छ-मांडवीवास्तव्यस्य संप्रति Baroda University मध्ये कार्यवाहकस्य 'नवीनचन्द्र नानालाल शाह' महोदयस्य साहाय्येनैव संप्रति सञ्जातेति स भूयो भूयो धन्यवादमर्हति । अस्माकं संशोधनपद्धतिः- यत्र मूलपाठे काचिदशुद्धिः संभाव्यते तत्रास्मत्संभावितः पाठ () एतादृशे कोष्ठके निवेशितः। यत्र कश्चित् पाठः पूरणीय इति अस्माकं प्रतिभाति तत्र तादृशोऽस्मत्संभावितः पाठ [] एतादृशे कोष्ठके निवेशितः । यत्र पूर्वं कश्चित् पाठो लिखितः, पश्चात् केनचिदध्येतृणा संशोधितः पाठः तत्र मू०= पूर्वं मूले लिखितः, सं०= पश्चात् केनचित् संशोधित इत्यर्थो ज्ञेयः । क्वचित् सं० पाठापेक्षया मू० समीचीनो भवति, क्वचित् सं० पाठोऽपि विचारणार्हो भवति । ___ धन्यवादः- अस्य ग्रन्थस्य संशोधने सम्पादने च यतो यतः किमपि साहायकं लब्धं तेभ्यः सर्वेभ्यो भूयो भूयो धन्यवादान् वितरामि । विशेषतस्तु इमे सहायका :____ आगमप्रभाकर पूज्यमुनिराजश्री पुण्यविजयजीमहाराजैः Oriental Institute, Baroda त: Gaekwad's Oriental Series मध्ये No. xxxvIII रूपेण 1930 A.D. वर्षे प्रकाशिते न्यायप्रवेशकवृत्तिपञ्जिकापुस्तके एव महता महता परिश्रमेण लिखितान् जेसलमेरखंभातादिनगरस्थिततालपत्रोपरिलिखितमूल-वृत्ति-पञ्जिकादशेषु स्थितान् पाठभेदानवलम्ब्यैव एतत् संशोधनं संपादनं चास्माभिर्विहितमिति त एवास्य आद्यसंशोधकाः, अतस्ते सहस्रशो धन्यवादानहन्ति । परमोपकारिणी परमपूज्या विक्रमसंवत् २०५१ तमे वर्षे श्री सिद्धक्षेत्र पालिताणा नगरे पोषशुक्लदशम्यां दिवंगता शताधिकवर्षायुः मम माता साध्वीजीश्री मनोहरश्रीरिहलोकपरलोककल्याणकारिभिराशीर्वचनैर्निरन्तरं मम परमं साहायकं सर्वप्रकारैर्विधत्ते । लोलाडाग्रामे विक्रमसंवत् २०४० कार्तिकशुक्लद्वितीयादिने दिवंगतो ममान्तेवासी वयोवृद्धो देवतुल्यो मुनिदेवभद्रविजयः सदा मे मानसिकं बलं पुष्णाति ।। ममातिविनीतोऽन्तेवासी मुनिधर्मचन्द्रविजयः तच्छिष्यः मुनिपुण्डरीकरत्नविजयः मुनिधर्मघोषविजयः मुनिमहाविदेहविजयः मुनिनमस्कारविजयश्च अनेकविधेषु कार्येषु महद् महद् साहायकमनुष्ठितवन्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy