________________
श्री सिद्धाचलमण्डन श्री ऋषभदेवस्वामिने नमः । श्री शंखेश्वरपार्श्वनाथाय नमः ।
मोत्थु णं समणस्स भगवओ महइमहावीरवद्धमाणसामिस्स । श्री पुण्डरीकस्वामिने नमः । श्री गौतमस्वामिने नमः । श्री सद्गुरुदेवेभ्यो नमः ।
प्रास्ताविकं किञ्चित्
परमकृपालोः परमात्मनः, परमोपकारिणां पितृचरणानां गुरुदेवानां पूज्यपादमुनिराज श्री भुवनविजयजीमहाराजानां च कृपया साहायाच्च वृत्ति - पञ्जिका सहितं न्यायप्रवेशकशास्त्रं प्राचीनानर्वाचीनांश्च हस्तलिखितादर्शाननुसृत्य संशोध्य बौद्धन्यायरसिकानां पुरतः उपन्यस्यन्तो वयमद्यामन्दमानन्दमनुभवामः ।
रचयितारः- बौद्धतर्कशास्त्रस्य पितृत्वेन [Father Of the Buddist Logic] प्रसिद्धा दिङ्नागाभिधा बौद्धाचार्याः पूर्वस्मिन् कालेऽभवन् । तैर्विरचितस्य न्यायप्रवेशकस्य याकिनीमहत्तराधर्मसूनुभिः जैनाचार्य श्री हरिभद्रसूरिभिर्विरचिता शिष्यहिता नाम टीका संप्रति उपलभ्यते । टीकायाः विषमपदविवरणरूपा जैनाचार्यपार्श्वदेवगणिविरचिता पञ्जिकाऽपि उपलभ्यते ।
अस्य न्यायप्रवेशकस्य अन्यान्यपि अनेकानि विवरणान्यासन्निति हरिभद्रसूरिविरचितटीकाप्रारम्भे विद्यमानाच्छ्लोकद्वयात् स्फुटं प्रतीयते । किञ्च, 'प्रत्यक्षाद्यविरुद्ध इति वाक्यशेष: ' [पृ०२ पं०४] इति न्यायप्रवेशकान्तर्गतः पाठोऽपि न न्यायप्रवेशकसत्कः, अपि तु केनचिद् विरचितस्य न्यायप्रवेशकवार्तिकस्य स पाठ इति पञ्जिकायां [पृ० ७० पं० १-६] स्पष्टमेव निर्दिष्टमित्यपि ज्ञेयं सुधीभिः ।
समय:- दिङ्नागस्य वैक्रमे चतुर्थे पञ्चके वा शतके स्थितिः आसीत्, आचार्यश्री हरिभद्रसूरीणामपि सप्तमेऽष्टमे वा वैक्रमे शतके स्थितिरासीत्, पार्श्वदेवगणिनामपि वैक्रमे द्वादशे शतके स्थितिरासीदिति ऐतिह्यविदः संशोधका आमनन्ति ।
अस्य न्यायप्रवेशकस्य प्राचीने समये भोटभाषायां चीनभाषायां चानुवादा अभूवन् । एतदादि विस्तरेण अस्य ग्रन्थस्य प्रथमे द्वितीये च पत्रे टिप्पन्यां निवेदितमस्माभिः । तथा द्वादशे पत्रे, त्रयोदशे पत्रे, षट्पञ्चाशत्तमे च पत्रेऽपि विशेषजिज्ञासुभिर्विलोकनीयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org