SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ प्रास्ताविकं किञ्चित् xxiii एवमेव मम मातुः साध्वी श्रीमनोहरश्रियः शिष्यायाः साध्वीश्री सूर्यप्रभाश्रियः शिष्यया साध्वीश्री जिनेन्द्रप्रभाश्रियाऽपि एतद्ग्रन्थसंशोधनसम्बन्धिषु सर्वकार्येषु प्रभूतं प्रभूतं साहायकमनुष्ठितम्। अस्य ग्रन्थस्य कोम्प्युटरद्वारा Type - Setting आदि कार्यं किरीट ग्राफिक्स ( २०९, आनन्द शोपींग सेन्टर, चोथे माले, गोलवाड, रतनपोल, अमदावाद - ३८०००१) इत्यस्य अधिपतिना किरीटभाई महोदयेन तत्पुत्राभ्यां च विहितमिति तेऽपि धन्यवादमर्हन्ति । अस्य मुद्रणकार्ये आदरियाणाभिजनेन सम्प्रति अमदावादनिवासिना जितेन्द्रभाई मणिलाल संघवी इत्यनेन, मांडलाभिजनेन सम्प्रति अमदावादवास्तव्येन अशोकभाई भाइचंद संघवी इत्यनेन च महानुभावेन बहु साहायकं विहितमिति तावपि धन्यवादमर्हतः । Central Library, Baroda त: Gaekwad's Oriental Series मध्ये 1927 A.D. वर्षे न्यायप्रवेशकस्य भोटभाषानुवादः (Tibetan Translation) विधुशेखरभट्टाचार्येण रोमन लिप्यां (Roman Script) प्रकाशितोऽस्ति । अस्मिन् ग्रन्थे सोऽनुवादः भोटलिप्यां पञ्चमे परिशिष्टे मुद्रितोऽस्ति । भोटलिप्यां मुद्रणं भारतवर्षे न सुकरमिति जापानदेशे भोटलिप्यां मुद्रयित्वा एतत् परिशिष्टमस्माकं कल्याणमित्रेण Dr. Fujinaga Sin इत्यभिधानेन जापानदेशीयविदुषा (c\o Miyakonojo Kosen, Miyakonojo, Miyazaki, Postal code 885-8567, Japan) प्रेषितम् । किञ्च, Central Library, BARODA तः प्रकाशितो भोटभाषानुवादः (Tibetan Translation) Narthan Edition अनुसारेण मुद्रितोऽस्ति, Dr. Fujinaga Sin महोदयेन Peking Edition अनुसारी भोटभाषानुवादोऽपि प्रेषितः । अतोऽयं महानुभावो भूयो भूयो धन्यवादमर्हति । प्रभुपूजनम् । परमकृपालूनां परमेश्वराणां श्री सिद्धाचलतीर्थाधिपानाम् आदीश्वरदादाप्रभूणाम्, श्री शंखेश्वरतीर्थाधिपानां श्री शंखेश्वरपार्श्वनाथप्रभूणाम्, परमोपकारिणां पूज्यपादानां पितृचरणानां सद्गुरुदेवानां मुनिराजश्री भुवनविजयजीमहाराजानां च कृपया साहाय्याच्चैवेदं कार्यं सम्पन्नमिति तेषां चरणेषु अनन्तशः प्रणिपातं विधाय महयाम्येतेन कुसुमेन । चैत्री पूर्णिमा. विक्रम सं २०६३, ता. २-४-२००७, वीसानीमा भवन, जंबूद्वीप पासे, तलेटी रोड, पालिताणा ( जि. भावनगर) पीन : ३६४२७० Jain Education International पूज्यपादाचार्यमहाराज श्रीमद्विजयसिद्धिसूरीश्वरपट्टालंकारपूज्यपादाचार्यमहाराज श्रीमद्विजयमेघसूरीश्वरशिष्यपूज्यपाद - गुरुदेव - मुनिराज श्री भुवनविजयान्तेवासी मुनि जम्बूविजयः । For Private & Personal Use Only www.jainelibrary.org
SR No.002682
Book TitleNyayapraveshakashastram
Original Sutra AuthorN/A
AuthorJambuvijay
PublisherMotilal Banarasidas
Publication Year2009
Total Pages192
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy