________________
११४
अन्ययोगव्यवच्छेदद्वात्रिंशिकास्तुतिः
सतामपि स्यात् क्वचिदेव सत्ता, चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः, सुसूत्रमासूत्रितमत्वदीयैः ॥८॥ यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवन्निष्प्रतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्वमतत्त्ववादोपहताः पठन्ति ॥९॥ स्वयं विवादग्रहिले वितण्डापाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्म भिन्दन्नहो ! विरक्तो मुनिरन्यदीयः ॥ १० ॥ न धर्महेतुर्विहिताऽपि हिंसा, नोत्सृष्टमन्यार्थमपोद्यते च ! स्वपुत्रघातान्नृपतित्वलिप्सासब्रह्मचारि स्फुरितं परेषाम् ॥ ११ ॥ स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथाऽन्यथा तु। परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥१२ ।। माया सती चेद द्वयतत्त्वसिद्धिरथासती हन्त ! कुतः प्रपञ्चः ? । मायैव चेदर्थसहा च तत्किं ? माता च वन्ध्या च भवत्परेषाम् ॥१३ अनेकमेकात्मकमेव वाच्यं, द्वयात्मकं वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्यक्लप्तावतावकानां प्रतिभाप्रमादः ॥ १४ ॥ चिदर्थशून्या च जडा च बुद्धिः, शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति कियज्जडैन ग्रथितं विरोधि ॥ १५ ॥ न तुल्यकाल: फलहेतुभावो, हेतौ विलीने न फलस्य भावः । . ने संविदद्वैतपथेऽर्थसंविद् , विलूनशीणं सुगतेन्द्रजालम् ॥१६॥ विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत् कृतान्तः स्पृशते प्रमाणमहो ! सुदृष्टं त्वदसूयिदृष्टम् ॥.१७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org