________________
अर्हम्
॥ श्रीविजयनेमि-विज्ञान-कस्तूर-सरिसद्गुरुभ्योनमः ॥
॥ अन्ययोगव्यवच्छेदद्वात्रिशिकास्तुतिः ॥
अनन्तविज्ञानमतीतदोषमबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्द्धमानं जिनमाप्तमुख्यं स्वयम्भुवं स्तोतुमहं यतिष्ये ॥१॥ अयं जनो नाथ ! तव स्तवाय गुणान्तरेभ्यः स्पृहयालरेव । विगाहतां किन्तु यथार्थवादमेकं परीक्षाविधिदुर्विदग्धः ॥२॥ गुणेष्वसूयां दधतः परेऽमी मा शिश्रियन्नाम भवन्तमीशम् । तथापि सम्मील्य विलोचनानि विचारयन्तां नयम सत्यम् ॥ ३ ॥ स्वतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । वरात्मतत्त्वादतथात्मतत्त्वाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ आदीपमाव्योम समस्वभावं स्याद्वादमुद्राऽनतिभेदि वस्तु । तन्नित्यमेवैकमनित्यमन्यदिति त्वदाज्ञाद्विषतां प्रलापाः कर्ताऽस्ति कश्चिजगतः स चैकः स सर्वगः स स्ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकस्त्वम् ॥६॥ न धर्मधर्मित्वमतीबभेदे, वृत्याऽस्ति चेन्न त्रितयं चकास्ति । हेदमित्यस्ति मतिश्च वृत्तौ, न गौणभेदोऽपि च लोकपाधः ॥७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org