________________
११२
अयोगम्यम छेद द्वात्रिंधिकास्तुतिः
इमां समक्षं प्रतिपक्षसाक्षिणामुदारघोषामवघोषणां ब्रुवे ।
11 30 11
न वीतरागात् परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥ २८ ॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्तत्वपरीक्षा तु त्वामेव वीर ! प्रभुमाश्रिताः स्मः तमः स्पृशामप्रतिभासभाजं भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुवशोऽवदातास्तास्तर्कपुण्या जगदीश ! वाचः यत्र तत्र समये यथा तथा योऽसि सोऽस्यभिध्या यया तया । वीतदोष कलुषः स चेद्भवानेक एव भगवन् ! नमोऽस्तु ते ॥ ३१ ॥ इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो विगाहन्तां हन्त ! प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर ! परीक्षाक्षमधियामयं तत्वालोकः स्तुतिमयमुपाधिं विधृतवान् ॥ ३२ ॥
इति कलिकालसर्वज्ञ - श्री हेमचन्द्राचार्यविरचिता अयोगव्यवच्छेद द्वात्रिंशिकास्तुतिः समाप्ता ॥
Jain Education International
B
For Private & Personal Use Only
॥२९॥
www.jainelibrary.org