________________
समन्तभद्र-भारती
वृषभादि-चतुर्विशति-तीर्थकराणां तीर्थकरनामकर्मोदयवायुसमू. होवर्तितसौधर्मेन्द्रादिसुरवरसेनावारिधिभाक्तिकजनसमुपनीतेज्याविधानार्हाणां घातिकर्मक्षयानन्तरसमुद्भूतविषयीकृतानेकजीवादिद्रव्यत्रिकालगोचरानन्तपर्यायकेवलज्ञानानां स्तुतिरियं जिनशतकनामेति । तस्याः समस्तगुणगणोपेतायाः सर्वालंकारभूषितायाः घनकठिनघातिकम्म न्धनदहनसमर्थायाः तार्किकचूडामणिश्रीमसमन्तभद्राचार्यविरचिताया संक्षेपभूतं विवरणं क्रियते ।
___ ऋषभस्तुतिः
(मुरजबन्धः') श्रीमज्जिनपदाऽभ्याशं प्रतिपद्याऽऽगसां जये। कामस्थानप्रदानेशं स्तुतिविद्यां प्रसाधये ॥१॥
श्रीमज्जिनेति। पूर्वाद्ध मेकपंक्त्यांकारेण व्यवस्थास्य पश्चाद्धमप्ये.. पंक्त्याकारेण तस्याधः कृत्वा मुरजबन्धो निरूपयितन्यः । प्रथमपंक्तेः १ 'मुरजबन्ध' नामक चित्रालङ्कार का लक्षण इस प्रकार है
'पूर्वार्ध मूर्व पङ्क्तौ तु लिखित्वाद्ध परंत्वतः ।
एकान्तरितमूर्ध्वाधो मुरजं निगदे कविः ॥' 'पूर्वार्धमेकपङ्कयाकारेण व्यवस्थाप्य पश्चाद्धमप्येकपटयाकारेय तस्याधः कृत्वा मुरजबन्धोनिरूपयितव्यः। प्रथम पङ्क्तः प्रथमाक्षर द्वितीयपङ्क्त द्वितीयाक्षरेण सह, द्वितीयपङ्क्त प्रथमाक्षरं प्रथम पङ्क्ते द्वितीयाक्षरेण सह, एवमुभयपङ्कत्यक्षरेषु सर्वेषु संयोज्यमाचरमात् ।'
-अलंकारचिन्तामणिः अर्थात्- पहले श्लोकके पूर्वार्धको पंक्तिके प्राकारमें लिख कर, उत्त. राधको भी पंक्तिके आकार में उसके नीचे लिखे । इस अलंकारमें प्रथम पंक्तिके प्रथम अक्षरको द्वितीय पंक्तिके द्वितीय अक्षरके साथ और द्वितीय पंक्तिके प्रथम अक्षरको प्रथम पंक्तिके द्वितीय अक्षरके साथ मिनाकर पढ़ना चाहिये । यही क्रम श्लोकके अन्तिम अक्षर तक जारी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org