________________
श्रीमत्स्वामिसमन्तभद्राचार्यविरचितस्तुति-विद्या
अपर नाम
जिन-शतक संस्कृतटीका तथा हिन्दी अनुवाद-सहित
( टोकाकारस्य मंगलाचरणम् ) नमो वृषभनाथाय लोकाऽलोकाऽवलोकिने । मोहपङ्कविशोषाय भासिने जिनभानवे ॥१॥ समन्तभद्रं सद्बोधं' स्तुवे वर-गुणालयम् । निर्मलं यद्यशस्कान्तं बभूव भुवनत्रयम् ॥२॥ यस्य च सद्गुणाधारा कृतिरेषा सुपद्मिनी । जिनशतकनामेति योगिनामपि दुष्करा ॥३॥ तस्याः प्रबोधकः कश्चिन्नास्तीति विदुषां मतिः । यावत्तावद्भवैको नरसिंहो विभाकरः ॥४॥ दुर्गमं दुर्गम काव्यं श्रूयते महतां वचः । नरसिंहं पुनः प्राप्त सुगमं सुगमं भवेत् ॥शा स्तुतिविद्यां समाश्रित्य कस्य न क्रमते मतिः। तवृत्तिं येन जाड्ये तु कुरुते वसुनन्द्यपि ।।६।। प्राश्रयाज्जायते लोके निःप्रभोऽपि महाद्य तिः। गिरिराजं श्रितःकाको धत्तेहि कनकच्छविम् ॥७॥
महाबोध । २ तवृत्तिं यो न बोध्येत कुरुरे घसुनन्यपि' इति पुस्तकान्तरे पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org