________________
स्तुतिविद्या mmmmmmmmwwwmmm
( गतप्रत्यागतभागः ) नय मा स्वर्य वामेश शमेवार्य स्वमाय न । दमराजत्त वादेन' नदेवात जरामद ॥॥ नयेति-नय प्रापय । मा अस्मदः इबन्तस्य रूपम् । सु शोभनः अर्य: स्वामी स्वर्यः तस्य सेम्बोधनं हे स्वयं सुस्वामिन् । वामेश प्रधा. नेश । शमेव सुखमेव । आर्य साधो। सुष्टु अमायः स्वमायः तस्य सम्बोधनं हे स्वमाय । न नत्वर्थे । अथवा पा समंतात् अर्यते गम्यते विनाशक ! "शीर्णवाणाझिगाणोन् व्रणिभिरपधनैर्घर्घराध्यक्त-घोषान्, दोर्घाघातानघौधैः पुनरपि घटयत्येकउल्लाघयन्यः । धर्माशोस्तस्य वोऽन्तर्द्विगुणधनघृणानिध्ननिर्विघ्नवृत्त दत्तार्णः - सिद्धसंधै विदधतु पणयः शीघ्रमहोवित्रातम् ॥ ( मयूरकृत-सूर्यशतके सूर्यस्तुतिः) इत्यादौ सूर्यस्य रुजोविनाशकत्वं प्रसिद्धम् । हे नभो विभो ! नमसो गगनस्य विभुः स्वामी तत्सम्बुद्धौ । हे यमराज ! यमेन शनैश्चरग्रहेण स्वपुत्रेण राजते शोभते तत्सम्बुद्धौ । शनिः सूर्यस्य पुत्र इति ज्योतिष. शास्त्रे प्रसिद्धम् । 'यमोऽन्यलिङ्गो यमजे ना काके शमने नौ, इति मेदिनी । हे विनम्र ! वो आकाशे नम्रस्तत्सम्बुद्धौ ‘विः स्वकाशयोः पुमान् इति विश्वलोचनः । हे चारुरुचामोश ! सुन्दर किरणानां त्वामिन् ।
अक्षर! अवान् व्यवहारान् राति इदातीत्यक्षरस्तत्सम्बुद्धौ ‘अक्षो ज्ञातार्थ सकट-व्यवहारेषु पाशके' इति मेदिनी । हे उक्त विशेषण-विशिष्ट दिनकर ! शं-सुखं तनु--विस्तारय माम् अारक्ष चान्धतमसादिति शेषः । अथवा तनुचारुरुचाम्-शरीरसुन्दरशोभानाम्-इत्येकं पदम्। माक्षर या लदम्या अवरोऽविनश्वरस्तत्सम्बुदावित्यप्येकं पदम् । शमेव--सुखव भारत-श्रा समन्ताद्रक्षेति कर्तृकर्मसम्बन्धः । अत्र इन एव इन ति । श्लेष्टरूपकाश्रये चमत्कारातिशयो भवेदिति संक्षेपः ॥ ८ ॥
पदमराज+ऋतवाद+इन इति पदग्छेदः। २ 'अर्यः स्वामिश्ययोः इत्यमरः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org