________________
- का० १. ९३६ ]
लोकवादः ।
३१
ब्रह्मणो मुखादिभ्यो ब्राह्मणादिजन्मकम् । सेौख्याः प्रकृतिप्रभवम् । शाक्या विज्ञप्तिमात्रम् । अन्य एकजीवात्मकम् । केचिदनेकजीवात्मकम् । परे पुरातनकर्मकृतम् । अन्ये स्वभावजम् । 'केचि - वक्षरजातभूतोद्भूतम् । केचिदैण्डप्रभवम् । आश्रमी 'त्वहेतुकम् । पूरणो नियतिजनितम् । पराशरः परिणामप्रभवम् । केचिद्यादृच्छिकम् । नैकवादिनोऽ नेकस्वरूपम् । तुरुष्का गोस्वामि
७
कहते हैं तो कोई उसे पृथिवी आदि अष्टमूर्तिवाले ईश्वर के द्वारा रचा हुआ कहते हैं । कोई ब्रह्माके मुख आदि ब्राह्मण-क्षत्रियादिको उत्पत्ति बताते हैं । सांख्य इस सृष्टिको प्रकृतिकृत मानते हैं । बौद्ध इस जगत्को क्षणिक विज्ञानरूप कहते हैं । ब्रह्माद्वैतवादी जगत्को एक जीवरूप कहते हैं तो कोई वादी इसे अनेक जीवरूप भी कहते हैं । कोई इसे पूर्वकर्मोंसे निष्पन्न कहते हैं तो कोई स्वभावसे उत्पन्न बताते हैं । कोई अक्षरसे समुत्पन्न भूतों द्वारा इस जगत् की उत्पत्ति बताते हैं । कोई इसे अण्ड से उत्पन्न हुआ बताते हैं । आश्रमी इसे अहेतुक कहते हैं । पूरण जगत्को नियतिजन्य मानते हैं । पराशर इसे परिणामजन्य कहते हैं । कोई इसे यादृच्छिक -अनियतहेतुज मानते हैं । इस तरह अनेकों वादी इसे अनेक स्वरूप बताते हैं । तुरुष्क गोस्वामी नामके दिव्य पुरुषसे जगत् की सृष्टि
बाहुत्वेन निष्पादितो बाहुभ्यामुत्पादित इत्यर्थः । तत्तदानीमस्य प्रजापतेर्यद्यावूरू तद्रूपो वैश्यः संपन्नः ऊरुभ्यामुत्पादित इत्यर्थः । तथाऽस्य पद्भ्यां पादाभ्यां शूद्रः शूद्रत्वजातिमान् पुरुषोऽजायत । इयं च मुखादिभ्यो ब्राह्मणादीनामुत्पत्तिर्यजुःसंहितायां सप्तमकाण्डे 'स मुखतस्त्रिवृतं निरमिमीत' इत्यादी विस्पष्टमाम्नाता ।" ऋक्. पुरुषस्. । "आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्यमविज्ञेयं प्रसुप्तमिव सर्वतः ॥ ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादिवृत्तौजाः प्रादुरासीत्तमोनुदः ॥ लोकानां स च वृद्धयर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च विन्यवर्तयत् ॥” - लोकत. १।६५-६७ । “एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्याभिध्यानमात्रात् तैजसेभ्योऽणुभ्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमारभ्यते । तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्यं प्रजासर्गे विनियुङ्क्ते । स च महेश्वरेण विनियुक्तो ब्रह्माऽतिशयज्ञानवैराग्यैश्वर्यसंपन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णान् अन्यानि चोच्चावचानि सृष्ट्वा ...." - प्रश. मा. पृ. २२ । १. ब्रह्मादिभ्यो म. २ । २. " इत्येष प्रकृतिकृतो महदादिविशेषभूतपर्यन्तः । प्रतिपुरुषविमोक्षार्थं स्वार्थ इव परार्थ आरम्भः ।। " सांख्यका. ५६ । ३. " विज्ञप्तिमात्रमेवेदमसदर्थावभासनात् । यथा तै मिरिकस्यासत्केशपाशादिदर्शनम् ॥” - विज्ञप्ति. इलो. १ । ४. अक्षरात् क्षरितः कालस्तस्माद् व्यापक इष्यते । व्यापकादिप्रकृत्यन्तां तां हि सृष्टि प्रचक्षते || अक्षरांशस्ततो वायुस्तस्मात्तेजस्तततो जलम् । जलात् प्रसूता पृथ्वी भूतानामेष संभवः ॥” – लोकत. २।२३-२४ । ५. “नारायणपराव्यक्तादण्डमव्यक्तसंभवम् । अण्डस्यान्तस्त्वमी भेदाः सप्त द्वीपा च मेदिनी ॥ गर्भोदकं समुद्राश्च जरायुश्चापि पर्वताः । तस्मिन्नण्डं त्वमी लोकाः सप्त सप्त प्रतिष्ठिताः । तत्रेहाद्यः स भगवानुषित्वा परिवत्सरम् । स्वयमेवात्मना ध्यात्वा तदण्डमकरोद् द्विषा । ताभ्यां स शकलाभ्यां तु दिवं भूमि च निर्ममे ॥”
लोकत. २।२५-२७ । ६. "हेतुरहिता भवन्ति हि भावा: प्रतिसमयभाविनश्चित्राः । भावादृते न भाव्यं संभवरहितं खपुष्पमिव ॥ —लोकत. २।२८ । ७. प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाऽभाव्यं भवति न भाविनोऽस्ति नाशः ॥" - लोकत. २।२९ । ८. “प्रतिसमयं परिणामः प्रत्यात्मगतश्च सर्वभावानाम् । संभवति नेच्छयापि स्वेच्छा क्रमवर्तिनी यस्मात् ॥ " - लोकत. २।३० । ९. “ कारणानि विभिन्नानि कार्याणि च यतः पृथक् । तस्मात्त्रिष्वपि कालेषु नैव कर्मास्ति निश्चयः ॥" लोकत. २११५ ।
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org