SearchBrowseAboutContactDonate
Page Preview
Page 515
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् । ४८९ संवरस्तन्निरोधस्तु बन्धो जीवस्य कर्मणः । अन्योन्यानुगेमात्कर्मसंबन्धो यो द्वयोरपि ॥५१॥ तु पुनस्तभिरोध आस्रवद्वारप्रतिरोधः संवरः तत्त्वम् । संवरप्रकृतयस्तु सप्तपञ्चाशत्तद्यथा "समिइगुत्तिपरीसहजइधम्ममावणाचरित्ताणि । पणतिगदुवीसदसवार पंचभेएहिं सगवण्णा ॥" पञ्च समितयस्तिस्रो गुप्तयो द्वाविंशतिः परीषहा दशविधो यतिधर्मः द्वादश भावनाः पञ्च चारित्राणीति प्रकृतयः । बन्धो नाम जीवस्य प्राणिनः कर्मणो वर्द्धमानस्यान्योन्यानुगमात् परस्परं क्षीरनीरन्यायेन लोलीभावाद् यो द्वयोरपि जीवकर्मणोः संबन्धः संयोगः स बन्धो नाम तत्त्वमित्यर्थः। स च चतुर्विधः प्रकृतिस्थित्यनुभागप्रदेशभेदात् । "स्वभावः प्रकृतिः प्रोक्तः स्थितिः कालावधारणम् । अनुमागो रसो ज्ञेयः प्रदेशो दलसंचयः॥"[ ] इति इत्यादिः स बन्धो ज्ञेयः । निर्जरामोक्षी चाह बद्धस्य कर्मणः शाटो यस्तु सा निर्जरा मता। ___ आत्यन्तिको वियोगस्तु देहादेर्मोक्ष उच्यते ॥५२॥ - यः पुनर्बद्धस्थ स्पृष्टबद्धनिधत्तनिकाचितादिरूपेणार्जितस्य कर्मणस्तपश्चरणध्यानजपादिभिः शाटः कर्मक्षपणं सा निर्जरा मता पूर्वसूरिभिरिति । सा पुनद्विविधा, सकामाकामभेदेन । तु पुनर्देहादेरास्यन्तिको वियोगो मोक्ष उच्यते । स च नवविधो यथा "संतपयपरूवणया दब्वपमाणं च खित्तफुसणा य । कालो य 'अंतरं मागो भावो अप्पाबहुंचेव ॥" [ ] इति नवप्रकारो हि करणीयः । बाह्यप्राणानामात्यन्तिकापन वित्वेनाभावः शिव इत्यर्थः । नन सर्वथा प्राणाभावादजीवत्वप्रसङ्गः, तथा च द्वितीयतत्त्वान्तर्भूतत्वात् मोक्षतत्त्वाभाव इति चेत्, न; मोक्षे हि द्रव्यप्राणानामेवाभावः । भावप्राणास्तु नष्कर्मिकावस्थायामपि सन्त्येव । यदुक्तम् "यस्मारक्षायिकसम्यक्त्ववीर्यसिद्धस्वदर्शनज्ञानैः । आत्यन्तिकैः सयुक्तो निर्द्वन्द्वेनापि च सुखेन ॥ ज्ञानादयस्तु भावप्राणा मुक्तोऽपि जीवति स हि । "तस्मात्तजीवत्वं हि नित्यं सर्वस्य जीवस्य ॥" [ ] इति । सङ्गतं देहवियोगान्मोक्षः, आदिशब्दाद्देहेन्द्रियधर्म''विरहोऽपीति पद्यार्थः ।। एवं नामोद्देशेन तत्त्वानि सङ्घीय फलपूर्वकमुपसंहारमाह एतानि तत्र तत्त्वानि यः श्रद्धत्ते स्थिराशयः। सम्यक्त्वज्ञानयोगेन तस्य चारित्रयोग्यता ॥५३।। एतानि पूर्वोक्तानि, तत्र''जिनमते, तत्त्वानि यः कश्चित् स्थिरावायो दृढचित्तः सन् श्रद्धत्ते, अवैपरीत्येन"मनुते । एतावता जानन्नपि अश्रद्दधानो मिथ्यादृगेव । यथोक्तं-श्रोगन्धिहस्तिमहात-"द्वादशाशमपि श्रुतं विदर्शनस्य मिथ्या" [ ] इति । तस्य दृढमानसस्य सम्यक्त्वज्ञानयोगेन चारित्रयोग्यता १.-मात्मा च यः म. १। २. यः संबन्धो द्वयो-प.१,२, म. २। ३. वरत-मु., म. । ४. वेद्यस्या-मु.। ५. निर्जरां मोक्ष चा-। ६. साटो म. १ । ७. -ष्टधत्तनिध-प. १, २, भ. । -ष्टनिध-भ.२।८. संयुक्तो मु.। ९. तहि मु., प. १,२।१०. तस्माज्जी-मु.। ११. वियोगोपीप.२। १२. जैनमते प, १, २, म, २ । १३. मन्यते म. । ६२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002674
Book TitleShaddarshan Samucchaya
Original Sutra AuthorHaribhadrasuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year1981
Total Pages536
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Philosophy
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy