________________
४८८
षड्दर्शनसमुच्चये "सधजीवाणं पिय णं अक्खरस्स अणन्तो भागो निच्चुग्धाडिओ। जइ सो वि आवरेज्झा तो जीवो अजीवत पाविजा।
सुट्ट वि मेहसमुदये होइ पहा चन्दसूराणम् ॥" तथा निवृत्तिमानिति । निवृत्तिः परिणामः सास्यास्तीति मत्वर्थीयो मतुप् । सुरनरनारकतिर्यक्षु एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तजातिषु विविधोत्पत्तिरूपान् परिणामाननुभवति जीव इत्यर्थः । अन्यच्च शुभाशुमं कर्म कर्ता । शुभं सातवेद्यम्, अशुभमसातवेद्यम् । शुभं चाशुभं चेति द्वन्द्वः । एवंविधं कर्म भोक्तव्यफलकत्र्तृभूतं कर्ता, स्वात्मसाद्विधाता उपार्जयितेति यावत् । न च सांख्यवदकर्ता आत्मा शुभाशुभाबन्धकश्चेति । तथा कर्मफलं भोक्ता। न च केवलं कर्ता, किं तु भोक्तापि स्वोपाजितपुण्यपापकर्मफलस्य वेदयिता। न चान्यकृतस्यान्यो भोक्ता। तथा चागमः
"जीवाणं मन्त ! किं अत्तकडे दुक्खे, परकडे दुक्खे, तदुभयकडे दुक्खे । ___गोयम ! अत्तकडे दुक्खे, नो परकडे दुक्खे, नो तदुमयकडे दुक्खे ॥' [ ] इति ।
कतँव भोक्ता । तथा चैतन्यलक्षण इति । चैतन्यं चेतनास्वभावत्वं, तदेव लक्षणं मूलगुणो यस्येति । सूक्ष्मबादरभेदा एकेन्द्रियास्तथा विकलेन्द्रियास्त्रयः संज्यसंज्ञिभेदाश्च पश्चेन्द्रियाः, सर्वेऽपि पर्याप्ता अपर्याप्ताश्चेति चतुर्दशापि जीवभेदाश्चैतन्यं न व्यभिचरन्तीति ।
___ अथाजीवमाह-'यश्चैतद्वैपरीत्यवानजीवः स समाख्यातः' इति । यः पुनस्तस्माज्जीवलक्षणाद्वैपरीत्यमन्यथात्वमस्यास्तीति त_परीत्यवान् विपरीतस्वभावोऽचेतनः सोऽजीवः समाख्यातः कथितः पूर्वसूरिभिरिति । भेदाश्च धर्माधर्माकाशपुद्गलाः स्कन्धदेशप्रदेशगुणा अद्धाकेवलपरमाणुश्चेति चतुर्दश अजीवभेदाः। पुण्यं सत्कर्मपुद्गला इति । पुण्यं नाम तत्त्वं कीदृगित्याह-सत्कर्मपुद्गला इति । सच्छोभनं सातवेद्यं कर्म, तस्य पुद्गला दलपाटकानि पुण्यप्रकृतय इत्यर्थः । ताश्च द्वाचत्वारिंशत्तद्यथा
"मरतिरिसुराउउच्चं सायं परघायआयवुजोयं । तिस्थुस्सासनिमाणं पणिदिवहरुस्समचउरसं ॥ तसदसचउवनाई सुरमणुदुगपंचतणुउर्वगतिरं ।
अगुरुलहुपढमखगई बायाशीसंति सुहपयडी ॥" मावार्थस्तु ग्रन्थविस्तरभयानोच्यत इति इकोकार्थः । शेषतत्त्वमाह
पापं तद्विपरीतं तु मिथ्यात्वाद्यास्तु हेतवः।
यस्तैर्बन्धः स विज्ञेय आस्रवो जिनशासने ॥५०॥ तु पुनस्तद्विपरीतं पुण्यप्रकृतिविसदृशं पापं पापतत्त्वमित्यर्थः। मिथ्यात्वाथाश्चेति । मिथ्यादर्शनाविरतिप्रमादकषाययोगा हेतवः । पापस्य कारणानि तत्प्रकृतयश्च द्वयशीतिस्तद्यथा
"थावरदसचउजाई अपढमसंठाणखगइसंघयणा ।
तिरिनिरयदुगुवधाई वनचऊनामचउतीसा ॥ नरयाउनीयअस्सा
यघाइपणयालसहियवासीई" इति ।
पुण्यप्रकृतिव्यतिरिक्ताः पापप्रकृतयो द्वघशीतिः ।। वर्णचतुष्कस्य तु शुभाशुभरूपेणोभयत्रापि संबध्यमानत्वान्न दोषः। यस्तैर्बन्ध इति यस्तैमिथ्यादर्शनादिभिर्बन्धः स कर्मबन्धः स जिनशासन मात्रवो विज्ञेयः, आस्रवतत्त्वं ज्ञेयमित्यर्थः । तत्प्रकृतयश्च द्वाचत्वारिंशत् । तथा हि-पञ्चेन्द्रियाणि, चत्वारः कषायाः, पञ्च[अ]व्रतानि, मनोवचनकायाः, पञ्चविंशतिक्रियाश्च कायिक्यादय, इत्यास्रवः ।
१. आत्म-प. ३।२. यो बन्धः प.१। ३.-तत्त्वमित्यर्थः प. २। ४. पश्चाणवतानि म.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org