________________
परिशिष्टम् ।
४८७ "जे एवं जाणइ से सर्व जाणइ जे सम्बं जाणइ से एगं जाण इ ।" तथा
"एको भावः सर्वथा येन दृष्टः सर्वे मावाः सर्वथा तेन दृष्टाः ।
सर्वे मावाः सर्वथा येन दृष्टाः एको मावः सर्वथा तेन दृष्टः ॥" [ ] इति । सुघट सदसदनेकान्तात्मकं वस्तु । अनयैव भङ्ग्या स्यादस्तिस्यान्नास्तिस्यादवक्तव्यादिसप्तभङ्गीविस्तरस्य जगत्-पदार्थसार्थव्यापकत्वाद् अभिलाप्यानभिलाप्यात्मकमप्यूह्यमिति ।
सद्भूतार्थोपदेशक इति, कृत्स्नकर्मक्षयं कृस्वेति । कृत्स्नानि सर्वाणि घात्यघात्यादीनि यानि कर्माणि जीवभोग्यवेद्यपुद्गलास्तेषां क्षयं निर्जरणं विधाय। परमं पदं मोक्षपदं संप्राप्तः । अपरे हि सौगतादयो मोक्षमवाप्यापि तीर्थनिकारादिसंभवे भूयो भूयो भवमवतरन्ति । यदाहु:
"ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् ।
गत्वा गच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥" [ ] इति । न ते परमार्थतो मोक्षगतिभाजः, कर्मक्षयाभावात् । न हि तत्त्वतः कर्मक्षये पुनर्भवावतारः । यदुक्तम्
"दग्धे बोजे यथाऽस्यन्तं प्रादुर्मवति नाल्कुरः । कर्मबीजे तथा दग्धे न रोहति भवाइकुरः ॥[
1 इति । उक्तं च श्रीसिद्धसेनदिवाकरपादैरपि भवाभिगामुकानां प्रबलमोहविजृम्भितम् । यथा
"दग्धेन्धनः पुनरुपैति भवं प्रमथ्य निर्वाणमप्यनवधारितभीरनिष्टम् ।
मुक्तः स्वयं कृतमवश्च परार्थशूरस्वच्छासनप्रतिहतेविह मोहराज्यम् ॥" [ ] इति । अहंश्च भगवान् कर्मक्षयपूर्वमेव शिवपदं प्राप्त इति । तत्त्वान्याह
जीवाजीवी तथा पुण्यं पापमास्रवसंवरी।
बन्धेश्च निर्जरामोक्षो नव तत्त्वानि तन्मते ॥४७॥ तन्मते जैनमते नव तत्त्वानि सम्भवन्तीति ज्ञेयम् । नामानि निगदसिद्धान्येव । जीवाजीवपुण्यतत्त्वमेवाह
तत्र ज्ञानादिधर्मेभ्यो भिन्नाभिन्नो विवृत्तिमान् । कर्ता शुभाशुभं कर्म भोक्ता कर्मफलस्य च ॥४८॥ चैतन्यलक्षणो जीवो, यश्चैतेद्वैपरीत्यवान् ।
अजीवः स समाख्यातः, पुण्यं सत्कर्मपुद्गलाः ।।४९|| युग्मम् । तत्र जनमते, चैतन्यलक्षणो जीव इति संबन्धः । विशेषणान्याह-ज्ञानादिधर्मेभ्यो मिनाभिन्न इति । ज्ञानमादिर्येषां धर्माणामिति ज्ञानदर्शनचारित्ररूपा "धर्मा गुणास्तेभ्योऽयं जीवश्चतुर्दशभेदोऽपि कथंचिद्भिन्नः कथंचिदभिन्न इत्यर्थः । एकेन्द्रियादिपञ्चेन्द्रियपर्यन्तेष जीवेषु स्वापेक्षया ज्ञानवत्त्वमस्त्येवेत्यभिन्नत्वं ज्ञानादिभ्यः परापेक्षया पुनरज्ञानवत्त्वमिति भिन्नत्वम् । लेशतश्चेत्सर्वजीवेषु न ज्ञानवत्त्वं तदा जीवोऽजीवत्वं प्राप्नुयात् । तथा च सिद्धान्त:
१. सो मु. प. १, २, भ. १। २. जो मु., प. १, २, भ. ५। ३. सो मु. प. १, २, म. १। ४. -कमभ्यू-म २।५.-भीरु न-म. २ । ६. बन्धो विनि-प. १, २ । बन्धो नि-भ. २ । ७. -तत्त्वमाह -प. १, म. २ । ८. शुभाशुभकर्मकर्ता भ. १। ९. तद्विपरीतवान् प. २, भ. २ । १०. धर्मगुणा-।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org