________________
- का० १. 8 १९ ]
मङ्गलम् ।
१५
कालवादिनो मते । कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव जगत्सर्वं मन्यन्ते । तथा च ते प्राहुः - न कालमन्तरेण चम्पकाशोक सहकारादिवनस्पतिकुसुमोद्गमफल बन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्रचारगर्भाधानवर्षादयो वर्तुविभागसंपादिता बालकुमारयौवनवली पलितागमादयो
करता है । कालवादी इस समस्त जगत्को कालकृत मानते हैं । उनका अभिप्राय है कि कालके बिना चम्पा - अशोक आम आदि वनस्पतियोंमें फूल तथा फलोंका लगना, कुहरेसे जगत् को धूमिल करनेवाला हिमपात, नक्षत्रों का संचार, गर्भाधान, वर्षा आदि ऋतु विभागसे होना; बचपन,
कालः सुप्तेषु जागति कालो हि दुरतिक्रमः । स चातीन्द्रियः युगपच्चिरक्षिप्रक्रियाभिव्यङ्ग्यो हिमोष्णवर्षाव्यवस्थाहेतुः क्षणलव मुहूर्तायामाहोरात्र मास - अयन - संवत्सरयुग कल्पपत्योपमसागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतवर्तमान सर्वार्द्धादिव्यवहाररूपः । द्वितीयविकल्पे तु कालादेव आत्मनोऽस्तित्वमभ्युपेयं किन्त्वनित्योऽसौ इति विशेषोऽयं पूर्वंविकल्पात् । तृतीयविकल्पे तु परत एवास्तित्वमभ्युपगम्यते ? कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते ? नन्वेतत् प्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो यथा दीर्घत्वापेक्षया ह्रस्वत्वपरिच्छेदो ह्रस्वत्वापेक्षया च दीर्घत्वस्येति । एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तद्वयतिरिक्ते वस्तुनि आत्मबुद्धिः प्रवर्तते इति, अतो यदात्मनः स्वरूपं तत् परत एवावधार्यते न स्वत इति । चतुर्थविकल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः । " - आचा. शी. ११४३४ ॥ स्था. अम. ४।४।३४५ । " अस्य च विकल्पस्यायमर्थः विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च । कालतः कालवादिनो मते । कालवादिनश्च नाम ते मन्तव्या ये कालकृतमेव सर्वं जगत् मन्यन्ते । तथा च ते आहुः - न कालमन्तरेण चम्पकाशोकसहकारादिवनस्पतिकुसुमोद्गमफलबन्धादयो हिमकणानुषक्तशीतप्रपातनक्षत्र गर्भाधानवर्षादयो वा ऋतुविभाग संपादिता बालकुमारयौवनवलिपलितागमादयो वावस्याविशेषा घटन्ते, प्रतिनियतकालविभाग एव तेषामुपलभ्यमानत्वात्, अन्यथा सर्वमव्यवस्था भवेत्, न चैतद् दृष्टमिष्टं वा । अपि च मुद्गपक्तिरपि " मन्दि. मलय. पृ. २१३ B |
१. “विधातृविहितं मार्गं न कश्चिदतिवर्तते । कालमूलमिदं सर्वं भावाभावो सुखासुखे । कालः सृजति भूतानि कालः संहरते प्रजाः । संहरन्तं प्रजाः कालं कालः शमयते पुनः ॥ कालो विकुरुते भावान् सर्वांल्लोके शुभाशुभान् । कालः संक्षिपते सर्वाः प्रजा विसृजते पुनः ॥ कालः सुप्तेषु जागति कालो हि दुरतिक्रमः । कालः सर्वेषु भूतेषु चरत्यविधृतः समः ॥ अतीतानागता भावा ये च वर्तन्ति साम्प्रतम् । तान् कालनिर्मितान् बुद्ध्वा न संज्ञां हातुमर्हसि ॥" - महामा. आदि. ११२७२-७३ | " कालः पचति भूतानि यस्मिंस्तु पच्यते कालो यस्तं वेद स वेदवित् ।" - मैना. ६।१५; उपनिषद्वाक्यकोष । "कालः कलयते लोकं कालः कलयते जगत् । कालः कलयते विश्वं तेन कालोऽभिधीयते ॥ कालस्य वशगाः सर्वे देवर्षिसिद्ध किन्नराः । कालो हि भगवान् देवः स साक्षात्परमेश्वरः ॥ सर्गपालनसंहर्ता स कालः सर्वतः समः । कालेन कल्प्यते विश्वं तेन कालोऽभिधीयते ॥ येनोत्पत्तिश्च जायेत येन वै कल्प्यते कला | सोऽन्तवच्च भवेत्कालो जगदुत्पत्तिकारकः ॥ यः कर्माणि प्रपश्येत प्रकर्षे वर्तमानके । सोऽपि प्रवर्त्तको ज्ञेयः कालः स्यात् प्रतिपालकः ॥ येन मृत्युवशं याति कृतं येन लयं व्रजेत् । संहर्ता सोऽपि विज्ञेयः कालः स्यात् कलनापरः । कालः सृजति भूतानि कालः संहरते प्रजाः । काल: स्वपिति जागति कालो हि दुरतिक्रमः ॥ काले देवा विनश्यन्ति काले चासुरपन्नगाः । नरेन्द्राः सर्वजीवाश्च काले सर्वं विनश्यति ॥" हारीत सं. स्था. १ अ. ४ । " केचित् कालं कारणतया वर्णयन्तिकालः सृजति भूतानि " 'सांख्य. माठर, पृ. ७६ । माध्य. वृं. पू. ३८६ । चतुः श. पू. ३८ । लोकत. ११६१। सम्मति. टी. पृ. ७११ । " कालो सम्वं जणयदि कालो सव्वं विणस्सदे भूदं । जगत्ति हि सुत्ते वि ण सक्कदे वंचिदुं कालो ||" - गो. कर्म. गा. ८७९ । २. - नक्षत्रगर्भा — क०, प. १, २, भ. १, २ ।
****))
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org