________________
षड्दर्शनसमुच्चये
[ का० १.६ १९पुनरमुनोपायेनाशीत्यधिकशतसंख्या विज्ञेयाः। जीवाजीवात्रवबन्धसंवरनिर्जरापुण्यापुण्यमोक्षरूपा. नवपदार्थान् 'परिपाटया पट्टिकादौ विरचय्य जीवपदार्थस्याधः स्वपरभेवावुपन्यसनीयौ, तयोरधो नित्यानित्यभेदौ, तयोरप्यधः कालेश्वरात्मनियतिस्वभावभेदाः पञ्च न्यसनीयाः। ततश्चैवं विकल्पाः कर्तव्याः। तद्यथा 'अस्ति जीवः स्वतो नित्यः कालतः' इत्येको विकल्पः ।
___अस्य च विकल्पस्यायमर्थः -विद्यते खल्वयमात्मा स्वेन रूपेण नित्यश्च कालतः माननेवाले मरीचिकुमार, कपिल, उलूक, माठर आदि क्रियावादी हैं। इनके १८० भेद इस प्रकार समझना चाहिए-जीव, अजीव, आस्रव, बन्ध, संवर, निर्जरा. पुण्य, पाप तथा मोक्ष इन नव पदार्थों को पट्टी आदिपर एक पंक्ति में स्थापित करो। जीव पदार्थके नीचे स्वतः और परत: ये दो भेद स्थापित करके फिर एकके नीचे नित्य और अनित्यरूपसे भी भेद स्थापित करो। फिर हर एकके नीचे काल, ईश्वर, आत्मा, नियति तथा स्वभाव रूपसे पांच-पांच भेद स्थापित करना चाहिए। इस तरह एक जीव पदार्थके इस प्रकार विकल्प होंगे-जीव स्वतो नित्य रूप है कालादिसे-पांच भेद, स्वतोऽनित्य रूप है कालादिसे-पांच भेद, जीव परतो नित्य रूप है कालादिसे-पांच भेद तथा परतोऽनित्यरूप कालादिसे-पांच भेद मिलकर बीस भेद हुए। इस तरह नव पदार्थोंके, २०४९-१८० भेद हो जाते हैं। इन विकल्पोंका अर्थ इस प्रकार है-पहला विकल्प 'अस्ति जीवः स्वतो नित्यः कालतः'-जीव स्वतः अपने स्वरूपसे विद्यमान है, नित्य है तथा कालके अधीन प्रवृत्ति करता है।
कालवादियोंके मतसे यह आत्मा स्वरूपसे विद्यमान है, नित्य है तथा कालाधीन होकर प्रवृत्ति १. तुलना-"जीवादयो नव पदार्थाः परिपाट्या स्थाप्यन्ते, तदधः 'स्वतः परतः' इति भेदद्वयम्, ततोऽप्यधो नित्यानित्यभेदद्वयम्, ततोऽप्यधस्तत्परिपाट्या कालस्वभावनियतीश्वरात्मपदानि पश्च व्यवस्थाप्यन्ते । ततश्चैवं चारणिकाक्रमः; तद्यथा अस्ति जीवः स्वतो नित्यः कालतः, तथा अस्ति जीवः स्वतोऽनित्यः कालत एव । एवं परतोऽपि भङ्गकद्वयम् । सर्वेऽपि चत्वारः कालेन लब्धाः, एवं स्वभावनियतीश्वरात्मपदान्यपि प्रत्येक चतुर एव लभन्ते । तथा च पश्चापि चतुष्कका विंशतिर्भवन्ति । सापि जीवपदार्थेन लब्धा । एवमजीवादयोऽप्यष्टी प्रत्येक विशतिं लभन्ते । ततश्च नव विंशतयो मीलिताः क्रियावादिनामशीत्युत्तरं शतं भवन्तीति ।" -सूत्र, शी. १।१२। आचा. शी. १।१।१।३ स्था. अभ. ॥१॥३४५ । नन्दी. मळय. सू. ४६। “अल्थि सदो परदो वि य णिच्चाणिच्चत्तणेण य णवत्था । कालीसरप्पणियदिसहावेहि य ते हि भंगा हु॥ प्रथमतः अस्तिपदं लिखेत्, तस्योपरि स्वतः परतः नित्यत्वेन अनित्यत्वेनेति चत्वारि पदानि लिखेत, तेषामुपरि जीवः अजीवः पुण्यं पापम् आस्रवः संवर: निर्जरा बन्धः मोक्ष इति नव पदानि लिखेत, तदुपरि काल ईश्वर आत्मा नियतिः स्वभाव इति पञ्च पदानि लिखेत् । तैः खल्वक्षसंचारक्रमेण भङ्गा उच्यन्ते; तद्यथास्वतः सन् जीवः कालेन अस्ति क्रियते । परतो जीवः कालेन अस्ति क्रियते । नित्यत्वेन जीवः कालेन अस्ति क्रियते । अनित्यत्वेन जीवः कालेन अस्ति क्रियते । तथा अजीवादिपदार्थ प्रति चत्वारश्चत्वारो भूत्वा कालेनैकेन सह षट्त्रिंशत् । एवमीश्वरादिपदैरपि षट्त्रिंशत् षट्त्रिंशत् भूत्वा अशीत्यग्रशतं क्रियावादभङ्गाः स्युः ।"-गो. कर्म, टी., गा. ८७७ । २. "किं कारणं ब्रह्म कुतः स्म जाता जीवाम केन क्व च संप्रतिष्ठाः । अधिष्ठिताः केन सुखेतरेषु वर्तामहे ब्रह्मविदो व्यवस्थाम् ॥ कालस्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्यम् । संयोग एषां नत्वात्मभावादात्माप्यनीशः सुखदुःखहेतोः ॥" -श्वेताश्व, १२, ६. नारदपरि. ९।। "कालो सहाव णियई पुवकयं पुरिसकारणे गंता।" -सन्मति. १.३। धर्म सं. गा. ५६६। ३. "तत्र स्वत इति स्वेनैव रूपेण जीवोऽस्ति न परोपाध्यपेक्षया ह्रस्वत्वदीर्घत्वे इव । नित्यः शाश्वतः न क्षणिकः पूर्वोत्तरकालयोरवस्थितत्वात् । कालत इति काल एव विश्वस्य स्थित्युत्पत्तिप्रलयकारणम् । उक्तं च-'कालः पचति भूतानि कालः संहरते प्रजाः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org