________________
३५८
षड्दर्शनसमुच्चये
[ का० ५७. ६ ३६७जलादावपीति, ततश्च प्रतिनियतव्यवहारलोपः। तथा च प्रत्यक्षादिप्रमाणबाधः। ततश्च तादृशो वस्तुनोऽसंभव एव।
३६७. अत्रोच्यते-यदेव सत्तदेव कथमसदित्यादि यदवादि वादिवृन्दवृन्दारकेण तद्वचनरचनामात्रमेव, विरोधस्य' प्रतीयमानयोः सत्त्वासत्त्वयोरसंभवात्, तस्यानुपलम्भलक्षणत्वात्, तब जल पीनेवाला आगको पीने के लिए दौड़ेगा तथा जिसे ठण्डक दूर करने के लिए आग तापने की इच्छा है वह जलमें प्रवृत्ति करने लगेगा। तात्पर्य यह कि संसारके समस्त नियत व्यवहारोंमें गड़बड़ी होकर व्यवहार लोप नामका दूषण होगा। वस्तुको अनेकान्तात्मक मानने में कोई भी प्रत्यक्षादि प्रमाण सहायक नहीं होते उलटे उसमें बाधा ही देते हैं अतः प्रमाणबाधा नामका दूषण होता है । जब ऐसी वस्तु न तो किसी प्रमाणका विषय होती है और न किसी व्यवहारको ही सिद्ध करती है तो ऐसी वस्तुका अभाव ही मानना चाहिए। ऐसी निरर्थक वस्तुको सम्भावना ही नहीं की जा सकती।
३६७. समाधान-आपके ये दूषण सर्वथा निर्मूल तथा कोरे बकवाद रूप ही हैं। आपने अपनेको बड़ा भारी समझकर जो-जो 'सत् है वही असत् कैसे ?' यह विरोध दूषण दिया है। वह तो बिलकुल युक्तिशून्य है सिर्फ कहनेके ढंगसे ही वह विरोध जैसा मालूम होता है। जब
१. "विरोधस्तावदेकान्ताद्वक्तुमत्र न युज्यते ।...." -मी. श्लो. पू. ५६० । "यदप्युक्तं भेदाभेदयोविरोध इति, तदभिधीयते, अनिरूपितप्रमाणप्रमेयतत्त्वस्येदं चोद्यम् । एकस्यैकत्वमस्तीति प्रमाणादेव गम्यते । नानात्वं तस्य तत्पूर्व कस्माद् भेदोऽपि नेष्यते ॥ यत्प्रमाणैः परिच्छिन्नमविरुद्धं हि तत तथा । वस्तुजातं गवाश्वादि भिन्नाभिन्नं प्रतीयते ॥ न भिन्न भिन्नमेव वा क्वचित केनचित दर्शयितं शक्यते । सत्ताज्ञेयत्वद्रव्यत्वादिसामान्यात्मना सर्वमभिन्नं व्यक्तात्मना तु परस्परवलक्षण्याद्भिन्नम् । तथाहि प्रतीयते तदुभयं विरोधः कोऽयमुच्यते । विरोधे चाविरोधे च प्रमाणं कारणं मतम् ॥ एकरूपं प्रतीतत्वात् द्विरूपं तत्तथेष्यताम् । एकरूपं भवेदेकमिति नेश्वरभाषितम् ॥....अत्र प्रागल्भ्यात् कश्चिदाह-यथा संशयज्ञानं स्थाणुर्वा पुरुषो वेत्यप्रमाणं तथा भेदाभेदज्ञानमिति, तदसत्, परस्परोपमर्दैन न कदाचित् सहस्थितिः । प्रमेयानिश्चयाच्चैव संशयस्याप्रमाणता ।। अत्र पुनः कारणं पूर्वसिद्धं मृत्सुवर्णादिलक्षणं ततः कार्य पश्चाज्जायमानं तदाश्रितमेव जायते....अतो भिन्नाभिन्नरूपं ब्रह्मेति स्थितम् । संग्रहश्लोकः-कार्यरूपेण नानात्वमभेदः कारणात्मना । हेमात्मना यथाभेदः कुण्डलाद्यात्मना भिदा ॥" -मास्क मा. पू. १६-१७ । ....तस्मात् प्रमाणबलेन भिन्नाभिन्नत्वमेव युक्तम् । ननु विरुद्धौ भेदाभेदी कथमेकत्र स्याताम् । न विरोषः, सह दर्शनात् । यदि हि 'इदं रजतम्, नेदं रजतम्' इतिवत् परस्परोपमर्दैन भेदाभेदो प्रतोयेयाताम् तनो विरुद्धययाताम्, न तु तयोः परस्परोपमर्दैन प्रतीतिः । इयं गौरिति बुद्धिद्वयम् अपर्यायेण प्रतिभासमानमेकं वस्तुद्वयात्मक व्यवस्थापयति समानाधिकरण्यं हि अभेदमापादयति अपर्यायत्वं च भेदम्, अतः प्रतीतिबलादविरोधः । अपेक्षाभेदाच्च, . एवं धर्मिणो द्रव्यस्य रसादिधर्मान्तररूपेण रूपादिभ्यो भेदः द्रव्यरूपेण चाभेद..." -शास्त्रदी. पृ. ३३-९५। "विरोधाभावस्तल्लक्षणाभावात् । ...न चैवमस्तित्वनास्तित्वयोः क्षणमात्रमपि एकस्मिन् वृत्तिरस्ति, इति भवताभ्युपगम्यते, यतो बध्यघातकभावरूपो विरोध: तयोः कल्प्येत ।....न च तथा जीवस्यास्तित्वनास्तित्वे पूर्वोत्तरकालभाविनि । यदि स्याताम्, अस्तित्वकाले नास्तित्वाभावात् जीवसत्ता मात्र सर्व प्राप्नुवीत । नास्तित्वकाले च अस्तित्वाभावात्तदाश्रयो बन्धमोक्षादिव्यवहारो विरोधमुपगच्छेत् । सर्वथैवासतः पुनः आत्मलाभाभावात्, सर्वथा च सतः पुनरभावप्राप्त्यनुगपत्तेः नैतयोः सहानवस्थानं युज्यते । तथा जीवादिषु प्रतिबन्ध्यप्रतिबन्धकभावोऽपि न विरोधः संभवति।... न च तथा अस्तित्वं नास्तित्वस्य प्रयोजनं प्रतिबध्नाति तस्मिन्नेव काले परद्रव्यादिरूपेणानुपलब्धिबुद्धयुसत्तिदर्शनात । नास्तित्वं वा सदस्तित्वप्रयोजनं प्रतिबध्नाति तदैव स्वरूपाद्यपेक्षयोपलब्धिबुद्धिदर्शनात् । तस्माद् वाङ्मात्रमेव विरोधः ।"-त. वा. पृ. २६१। प्रमाणसं. पृ. १०३ । अष्टश. अष्टसह. पृ. २०६ । तत्त्वार्थ. इको. पू. ४३४ । सन्मति. टी. पृ. ४५१ । न्यायकुमु. पृ. ३७० । स्या. र.पू. ७४१ । प्रमेयरस्न मा. ४।१। प्रमाणमी. पृ. २८ । स्याद्वादम. पृ. १९७ । सप्तभंगीत. पृ. १८१ । शास्त्रवा. टी. पृ. २६६ । २. -मानयोरसंभ-भ. १, २, प. १,२।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org